________________
७४
सटीकजैनतर्कभाषायां ऽप्युत्पलपत्रशतव्यतिभेद इव सौक्ष्यादवग्रहादिक्रमानुपलक्षणात् ।
उपलक्षणेऽपि = दर्शनेऽपि ।
उत्पलेति । यथोत्पलपत्रशतव्यतिभेदने क्रमेणैव पत्राणां व्यतिभेदनं सौक्ष्म्याच्च क्रमस्याऽनुपलक्षणम्, तथैव यत्राऽभ्यस्ते विषयेऽपायमात्रस्य दर्शनम्, तत्राऽप्यपायात् पूर्वमस्त्येवाऽवग्रहेहयोर्भाव इति क्रमेणैवाऽवग्रहेहापायधारणा: तत्रापि भवन्ति, सौक्ष्म्याच्च क्रमानुपलक्षणाद् ‘अपाय एवाऽत्रे'त्यभिमानः । एवं दृढवासनाविषयेऽपि अवग्रहेहापायपूर्विकैव स्मृतिः, सौक्ष्म्यात् क्रमानुपलक्षणात् 'स्मृतिरेवाऽत्र केवले'त्यभिमान इत्यर्थः ।। . सामान्यतोऽवग्रहादिभेदेन चतुर्विधस्य मतिज्ञानस्येन्द्रियानिन्द्रियलक्षण-करणभेदप्रयुक्तावान्तरभेदसङ्कलनयाऽष्टाविंशतिभेदत्वमुपसंहरति
तदेवमर्थावग्रहादयो मनइन्द्रियैः षोढा भिद्यमाना व्यञ्जनावग्रहचतुर्भेदैः सहाऽष्टा
क्वचित् कदाचिदवलोकितेऽवग्रहहाद्वयमतिक्रम्य प्रथमतोऽप्यपाय एव लक्ष्यते निर्विवादमशेषैरपि जन्तुभिः, यथा 'असौ पुरुषः' इति । अन्यत्र पुनः क्वचित् पूर्वोपलब्धे सुनिश्चिते दृढवासने विषयेऽवग्रहेहापायानतिलछ्य स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद् वस्तु यदस्माभिः पूर्वमुपलब्धम्' इति । तत् कथमुच्यते-उत्क्रमातिक्रमाभ्याम् एकादिवैकल्ये च न वस्तुसद्भावाधिगमः ?"-विशेषा० बृ० गा० २९८ ।
"भ्रान्तोऽयमनुभव इति दर्शयन्नाह-यथा तरुणः समर्थपुरुषः पद्मपत्रशतस्य सूच्यादिना वेधं कुर्वाण एवं मन्यते-मया एतानि युगपद् विद्धानि । अथ च प्रतिपत्रं तानि कालभेदेनैव भिद्यन्ते। न चासौ तं कालमतिसौक्ष्म्याद् भेदेनाऽवबुद्ध्यते । एवमत्रापि अवग्रहादिकालस्य अतिसूक्ष्मतया दुर्विभावनीयत्वेन अप्रतिभासः, न पुनरसत्त्वेन । तस्मादुत्पलपत्रशतवेधोदाहरणेन भ्रान्त एवाऽयं प्रथमत एव अपायादिप्रतिभासः । यथा शुष्कशष्कु लीदशने युगपदेव सर्वेन्द्रियविषयाणां उपलब्धिः प्रतिभाति, तथैषोऽपि प्राथम्येनाऽपायादिप्रतिभासः । पञ्चानामपि इन्द्रियविषयाणामुपलब्धियुगपदेवाऽस्य प्रतिभाति । न चेयं सत्या, इन्द्रियज्ञानानां युगपदुत्पादायोगात् । तथाहि-मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति, नान्यथा, अन्यमनस्कस्य रूपादिज्ञानानुपलम्भात् । न च सर्वेन्द्रियैः सह मनो युगपत् संयुज्यते तस्यैकोपयोगरूपत्वात्, एकत्र ज्ञातरि एककालेऽनेकैः संयुज्यमानत्वाऽयोगात् । तस्मात् मनसोऽत्यन्ताऽऽशुसंचारित्वेन कालभेदस्य दुर्लक्षत्वात् युगपत् सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमार्थतस्तु अस्यामपि कालभेदोऽस्त्येव । ततो यथाऽसौ भ्रान्तै!पलक्ष्यते तथाऽवग्रहादिकालेऽपीति प्रकृतम् । तदेवम् अवग्रहादीनां नैकादिवैकल्यम्, नाऽप्युत्क्रमातिक्रमौ इति स्थितम् ।"-विशेषा० बृ० गा० २९९ ।
'तदेवम् अर्थावग्रहादयः'-विशेषा० बृ० गा० ३००, ३०१ ।