________________
अवधिज्ञानम् इन्द्रियादिजन्यश्रुतानुसारिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं च श्रुतज्ञानस्येत्येवं लक्षणमावेदितं भवति । द्रव्यश्रुतस्य ज्ञानत्वव्याप्यजातिमत्त्वाभावेऽपि भावश्रुतकारणत्वमेव लक्षणम्, तदन्यतरत्वं च श्रुतसामान्यस्येति ।
अवधिज्ञानं विभजतेतच्च षोढा अनुगामि-वर्धमान-प्रतिपातीतरभेदात् । अनुगाम्यननुगामिवर्धमानहीयमानप्रतिपात्यप्रतिपातिभेदादवधिज्ञानं षड्विधमित्यर्थः ।
तत्रोत्पत्तिक्षेत्रादन्यत्राऽप्यनुवर्तमानमानुगामिकम्, भास्करप्रकाशवद् । यथा भास्करप्रकाशः प्राच्यामाविर्भूतः प्रतीचीमनुसरत्यपि तत्राऽवकाशमुद्योतयति, तथैतदप्येकत्रोत्पन्नमन्यत्र गच्छतोऽपि पुंसो विषयमवभासयतीति ।
तत्र = अनुगाम्यादिषु षट्सु अवधिज्ञानेषु । उत्पत्तिक्षेत्रेति । यस्मिन् क्षेत्रे स्थितस्य पुंसोऽवधिज्ञानमुत्पन्नं तस्मात् क्षेत्रादन्यत्र क्षेत्रे गतस्याऽपि तद् अवधिज्ञानमनुवर्तते इति कृत्वा तद् अवधिज्ञानमानुगामिकमित्यर्थः । एतदेवं स्पष्टदृष्टान्तावष्टम्भेन भावयति-भास्करप्रकाशवदिति । दृष्टान्तदाान्तिकयोः साम्यमावेदयति-यथेति । प्राच्यां = पूर्वस्यां दिशि, प्रतीची =पश्चिमां दिशम्, अनुसरत्यपि = गच्छत्यपि, तत्र = सूर्ये । अन्यत्रोत्पन्नस्य प्रकाशस्याऽन्यत्राऽनुगमनमुपदाऽवधिज्ञानस्य तदुत्पादयति-तथैतदपीति । एतद् = अवधिज्ञानम् । एकस्मिन् क्षेत्रे प्रतिनियते यस्य पुंसः उत्पन्नमवधिज्ञानम्, तस्माद् देशादन्यस्मिन् क्षेत्रे गच्छतोऽपि तस्य पुंसः तद् अवधिज्ञानं विषयं प्रकाशयतीत्यर्थः ।
तत्प्रतिपक्षमननुगामिकावधिज्ञानं निरूपयति
उत्पत्तिक्षेत्र एव विषयावभासकमननुगामिकम्, प्रश्नादेशपुरुषज्ञानवत् । यथा प्रश्नादेशः क्वचिदेव स्थाने संवादयितुं शक्नोति पृच्छ्यमानमर्थम्, तथेदमपि अधिकृत एव स्थाने विषयमुद्योतयितुमलमिति ।
___ यस्मिन् क्षेत्रे स्थितस्य पुंसोऽवधिज्ञानमुत्पन्नं तत्क्षेत्रादन्यस्मिन् क्षेत्रे गतस्य पुंसो यद् अवधिज्ञानं नाऽनुवर्तते, अपि तु उत्पत्त्यवच्छेदकदेशे एव स्वविषयमवभासयति, तद् अवधिज्ञानमननुगामिकमित्यर्थः । एतदपि दृष्टान्तावष्टम्भेन भावयति-प्रश्नादेश इति । परेण कृतस्य प्रश्नस्य 'ममाऽमुकार्थसिद्धिर्भविष्यति न वे'त्यादिरूपस्य विषयीभूतार्थसिद्ध्यादिकमादिशति = कथयति यो गणकादिः पुमान् स प्रश्नादेशः पुरुषः, तस्य प्रश्नविषयार्थसिद्धयादि१. सञ्ज्ञाक्षरादेः । २. इन्द्रियानिन्द्रियजन्यश्रुतानुसारिज्ञानवृत्ति-ज्ञानत्वव्याप्यजातिमत्त्व-भावश्रुतकारणत्वान्यतरत्वम् ।