________________
X
.
શ્રી જનહિતોપદેશ ભાગ ૩ જે.
॥११॥ निलेपाष्टकम् ॥ संसारे निवसन् स्वार्थ, सजः कज्जलवेष्मनि ॥ लिप्यते निखिलो लोको, ज्ञान सिद्धो न लिप्यते ॥१॥ नाहं पुद्गल भावानां, कर्ता कारयिता च न ॥ नानुमंतापि चेत्यात्म, ज्ञानवान् लिप्यते कथम् ॥ २ ॥ लिप्यते पुद्गलस्कंधो न लिप्ये पुदगलैरहम् ।। चित्रव्योमांजनेनेव, ध्यायन्निति न लिप्यते ॥३॥ लिप्तता ज्ञानसंपात, प्रतिघाताय केवलम् । निर्लेपज्ञानमनस्य, क्रिया सर्वोपयुज्यते ॥ ४॥ तपः श्रुतादिनामत्तः क्रियावानपि लिप्यते ॥ भावना ज्ञान संपन्नो, निष्क्रियोऽपि न लिप्यते॥५॥ अलिप्तो निश्चयेनात्मा, लिप्तश्च व्यवहारतः॥ शुद्धयत्यलिप्तया ज्ञानी, क्रियावान् लिप्तयादृशा ॥३॥ ज्ञान क्रीया समावेशः, सहैवोन्मीलने द्वयोः ॥ भूमिका भेदतस्त्वत्र, भवेदेकैक मुख्यता ॥७॥ सज्ञानं यदनुष्ठानं, न लिसं दोष पंकतः ॥ शुद्ध बुद्ध स्वभावाय, तस्मै भगवते नमः॥