________________
શ્રી ગણેન્દ્ર વિરચિતા પીઠિકા,
वाऽब्रह्म सेवां त्यज सर्वकालं, परिग्रहं मुञ्च कुयोनिद्वारं ॥ ४ ॥ वैराग्य सारं सज सर्वकालं, निग्रंथ संगं कुरु मुक्ति बीजं ॥ विमुच्य संगं कुजनेषु मित्र, देवार्चनं त्वं कुरु वीतरागे ॥५॥ दानं त्वं कुरु पात्रसारमुनय चैत्यालयं भावनां, रात्रौ भोजन वर्जनं त्यज महागार्हस्थ्यभावं सुहृद् ॥ देहं त्वं त्यज भोग सारमपि संसार पारं व्रज, धीरत्वं कुरु मंच शोकमशुभं शौचं च नीरंविना ॥६॥ सारं त्वं कुरु देहमेव सफलं धृत्वा व्रतं मा त्यज, सन्यासे मरणं च भोगविषये चाशामिहाऽमुत्र च ॥ मध्यस्थं हितमेव जाप्य जपनं रोगस्य निर्नाशनं, जीवस्या शरणं चलंच विभवं सारं विवेकं भज ॥७॥ संबलं कुरु वै धर्म, मानुष्यं दुर्लभं भवेत् ॥ अयोग्यं च परित्यज्य, मुक्ति योग्यं समाचर ॥ ८ ॥ ॥ इति पीठिका |