________________
उपदेशमालाविशेषवृत्तिः
जं आणवेइ राया, पगइओ तं सिरेण इच्छंति । इय गुरुजणमुहमणियं कयंजलिउडेहिं सोयव्वं ॥७॥
गणधरविनयः। 'जं आणवेइ ' यदाज्ञापयति राजा तत्प्रकृतयो-लौकिकाः शिरसा प्रतीच्छन्त्यभ्युपगच्छन्ति इत्यनेनैवोक्तप्रकारेण गुरुजनेन || स्वमुखेन भणितं कृताञ्जलिपुटै-योंजितकरकुड्मलैः श्रोतव्यम् ॥ ७॥ गुरोरेवं विनयेन वचः श्रवणदृष्टान्तैः प्राधान्यकारणमाह
जह सुरगणाण इंदो, गहगणतारागणाण जह चंदो। जह य पयाण नरिंदो. गणस्सवि गुरु तहाणंदो ॥८॥
यथा सुरगणानामिन्द्रः प्रधानं यथा वा अङ्गारकादिग्रहगणस्य शेषस्य च तारागणस्य नक्षत्रादिज्योतिश्चक्रस्य चन्द्रः प्रधानं यथा च प्रजानां नरेन्द्रस्तथा साधुसमुहस्यापि गुरुः-प्रधानम् । हेतुद्वारेण विशेषणमाह-आनन्दो यतः आनन्दयतीत्यानन्द आनन्दकः सन्नायकत्वादाह्रादक इत्यर्थः ॥ ८॥ एवमपि जन्मपर्यायाभ्यां लघुतरं गुरुं कश्चिन्मुग्धः परिभवेत्तदनुशास्ति दृष्टान्तेनाचष्टेबालोत्ति महीपालो, न पया परिहवइ एस गुरुउवमा । जं वा पुरओ काउं, विहरंति मुणी तहा सो वि ॥९॥
'बालो त्ति'-बालोऽयमिति कृत्वा महीपालं न प्रजा परिभवति पदप्रतिष्ठाया ज्येष्ठत्वात् 'महिपालो त्ति' द्वितीयास्थाने प्रथमा, प्राकृते विभक्तीनां व्यत्ययात् । एषा गुरोरुपमा । गुरुमपि तत एव न कश्चित् बालत्वात्परिभवेत् । आस्तां तावदाचार्यों यं वा सामान्यसाधुमपि गीतार्थतया प्रदीपकल्पं पुरतः कृत्वा गुरुत्वेन गृहीत्वा विहरन्ति मुनयः सोऽपि तथा गुरुरिव महीपालवद्वा तैर्न परिभवनीयः ।। ९॥ शिष्याणामुपदेशं दत्त्वा गुरोरुपदेशमाह
पडिरूवो तेयस्सी जुगप्पहाणागमो महुरवक्को। गंभीरो धीमंतो उवएसपरो य आयरिओ ॥१०॥ अपरिस्सावी सोमो संगहसोलो अभिग्गहमई य । अविकत्थणो अचवलो पसंतहियओ गुरु होइ ॥११॥
॥४६॥ 'पडिरूवो'–प्रतिनियतं विशिष्टाऽवयवरचनया रूपं यस्य स प्रतिरूपः-प्रतिविभक्ताङ्गः, तेजस्वी-दीप्तिमान्, युग-वर्त्तमानः कालस्तस्मिन् प्रधानं शेषजनापेक्षयोत्कृष्टो बहुत्वादागमः श्रुतं यस्यासौ युगप्रधानागमः, मधुरवाक्यः, पेशलवचनः गम्भीरोऽ
RECRCPECREEKRECancernet