________________
उपसर्गेषु
उपदेशमालाविशेषवृत्तिः
निष्पकम्पता।
DECEDEOCODE
हत्वात् इतीति संगमचक्राभिघातप्रकारेण जीवितव्यस्यापि पर्यन्तकारिणि विषहते-क्षमते, तदा सर्वैरपि साधुभिरेषेव क्षमाकार्या ॥४॥ यथा-" सूतां वाचमसूयको विषमुचं तस्मिन्न खिद्यामहे, सूक्तिं कर्णसुधां व्यनक्तु सुजनस्तस्मिन्न मोदामहे ।।
या यस्य प्रकृतिः सतां वितनुतां किं नस्तया चिन्तया, कुर्मस्तत्किल कर्मजन्मनिगडच्छेदाय यत्कल्पते ॥१॥" ननु रणसीहराजस्योपदिश्यमानत्वात् कथम् “एस खमा सव्व साहूण" मित्युक्तं ?, उच्यते-तस्यापि दीक्षिष्यमाणत्वेन तदशाऽपेक्षया तत्पुरस्कारेणान्येषां चोपदिश्यमानत्वाददोषः । उपसर्गेषु निष्प्रकम्पतां परमेश्वरद्वारेणेव दर्शयति-1
न चइज्जइ चालेउं महइ महावद्धमाणजिणचंदो । उवसग्गसहस्सेहिं वि मेरु जह वायगुंजाहिं ॥५॥ न शक्यते कम्पयितुं-ध्यानाच्च्यावयितुं दिव्यमानुषाद्युपसर्गसहस्रमहावर्द्धमानजिनचन्द्र इति सम्बन्धः । हेतुद्वारेण विशेषणमाहमहति फले मोक्षलक्षणे यतः सततमभ्युद्यत इति वाक्यशेषः । तथा च " क्षितितलशयनं वा प्रान्तभक्षासनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे खेदमुत्पादयन्ति ॥ १॥" यद्वा-महातिमहान् महै-आनदर्शनचारित्रोत्सवरतिमहान् स चासौ वर्द्धमानश्च । अथवा महोत्सवैरेवोत्सवैरतिमहाः प्रकृष्टतेजोयुक्तः। दृष्टान्तमाह-मेरुर्यथा वातगुञ्जाभिः सशब्दवातोत्कलिकाभिश्चालयितुं न शक्यते । श्रीवर्धमानस्वामिवत् शेषसाधुभिरप्युपसर्गेषु निष्प्रकम्पैर्भाव्यमिति भावः ।। ५॥ अधुना गणधरोदेशेन विनयोपदेशमाह
भद्दो विणीयविणओं, पढमगणहरो समत्तसुअनाणी। जाणतो वि तमत्थं, विम्हियहियो सुणइ सव्वं ॥६॥
प्रथमगणधरः खल्विन्द्रभूतिः समाप्तश्रुतज्ञानित्वात्सम्पूर्णश्रुतकेवलित्वाजानन्नपि तं जगदीशेन देश्यमानमर्थ विस्मितमना | | शृणोति । यतो भद्रः-कल्याणसौख्यवान् ‘भदि' कल्याणे सौख्ये चेति वचनात् । विनीतविनयश्च सदैवाभ्यस्त बाह्याभ्यन्तरभक्तिरेवं शेषसाध्वादिभिरपि गुरोर्वचः श्रोतव्यम् ॥ ६॥ लौकिकदृष्टान्तेनाप्यदः स्पष्टयति
॥
४
॥