________________
उपदेशमाला - विशेषवृत्तौ
॥ ५०३ ॥
| भवत्यज्ञानमहाकष्टानुष्ठानादिहलोकसुखाभावात् किं तु व्यवहारेण स्फुटं स एकः परलोको भवति अज्ञान कष्टोपार्जित तुच्छ परलोकसु खोपस्थानात् । बालतपस्विनो हि रागद्वेषाद्युपहतचित्तवृत्तयः पञ्चाग्नितापनघटसहस्त्रधाराधारणभिक्षाक्षालनादिषटकायोपमर्दं कृत्वा मृत्वा चाज्ञानमहाकष्टोपार्जितपापानुबन्धितुच्छपुण्याः, परलोके संसारिकसुखोपभोगभागिनो व्यन्तरादित्वेनोत्पद्यन्ते, ततस्तेषां कोणिकजीवसेनकसंज्ञतापसादीनामिव परो लोको भवति, नेह लोकः केवलकष्टानुभावात् । न च जैनसाधवोऽपि तथा तेषां वीतरागत्वेनात्रापि सुखित्वात् तृतीयभङ्गके प्रवेशात् । यदुक्तम्- ' देवलोगसमाणो उपरियाओ महेसिणमिति तन्नास्ति राजराजस्येत्यादि । अतः परं 'केसिं चि वरं मरण' मिति प्रथमगाथोक्तं भङ्गचतुष्टयमुदाहरिष्यति न तु अन्नेसिं एत्थ होइ इहलोगो' इत्यादि भङ्गत्रयं द्वयोरपि गाथयोः शब्दवृत्त्यैव भेदो न तात्पर्येणेत्यर्थज्ञापनार्थम् ॥ ४४१ ॥ “ नरय ” गाहा । ' नरकनिरुद्धमतीनां ' - परलोकेऽवश्यं नरकगामिनां श्रेणिकदण्डिकादीनां जीवितं श्रेयो वर्त्तते मुहूर्त्तसुखावाप्तेः परलोके नरकदुःखानुभवस्यावश्यंभावित्त्वादित्येतावता 'जीवियमन्नेसि’ति भङ्ग उदाहृतः । अथ 'केसिं चि वरं मरण 'मित्युदाह्रियते - बह्न पायेऽपि - रोगद्यपायाक्रान्तेऽपि देहे विशुद्धयतः प्रशस्तध्यानान्निर्मलीभवतो यावदद्यापि वेदनासहिष्णुतया नार्त्तध्यानं गच्छति तावद्वरं श्रेयोमरणं सुगतिगमनात्सुकोशल साध्वादेरिव ॥ ४२ ॥ तृतीयभङ्गकं योजयति – “ तव ” गाहा । कल्याणं पथ्यं हितं जैन साधूनामिव ॥ ४३ ॥ चतुर्थभङ्गयोजनामाह - " अहियं " गाहा - तमसि नरकरूपे वैरहेतुत्वाद्वैरं - पापमित्यर्थः ! कालशौकरिकादयो हि जीवन्तो यावतो जीवान् घ्नन्ति तावद्भिः सार्द्धं वैरहेतुं पापं वर्द्धयन्ति ||४४ || अत एव विवेकिनः पापं प्राणप्रहाणेऽपि नाचरन्तीत्याह – " अवि" गाहा अपि सम्भावनायां संभाव्यत एवायमर्थो यथा स्वस्येच्छन्ति मरणं न पुनः परस्य पीडां मनसाऽपि कुर्वन्ति । ' सुविदितसुगतिपथा ' - विज्ञातमोक्षमार्गाः । सुलसाख्यानकं दर्दूराङ्कदेवाख्यानके कथितमेव ॥ ४५ ॥ तदिदं विवेकविजूभितमुक्तम विवेकविजृम्भितमाह
मूलग कुदंडगा दामगाणि उच्छूलघंटिआओ य। पिंडे अपरितंतो, चउपया नत्थि य पवि ॥ ४४६ ॥
इह-परलोकयोः भङ्ग
कानि ।
॥ ५०३ ॥