________________
उपदेशमालाविशेषवृत्तौ
कालशौकरिकान्त्यावस्था।
॥५००॥
हिरण्मयीम् । करोषि न तथाप्येतत् । करिष्यामि कदाचन ॥ ४७ ॥ भूयसा वा किमुक्तेन, कल्पयेः कणशोऽपि चेत् । कुर्वे तथापि नाऽकार्य, त्वदायत्तं तु जीवितम् ॥ ४८ ॥ कालशौकरिकोऽप्येवं, प्रोचे भूमिभृता भृशम् । शूनां त्यजाऽद्य येन त्वामदरिद्रं करोमि भोः ॥ ४९॥ सोऽवोचत्कः किलास्यां स्याद्दोषः कथय भूपते ! । येन मां त्याजयस्येना, बहुद्रव्यार्पणादपि ॥ २५० ॥ प्रत्युत प्राणिसंघातः, प्राणिति प्रायशोऽनया । विप्रक्षत्रियवैश्यादिः, कुतस्तस्मात्त्यजामि ताम् ।। ५१॥ किमत्र बहुनोक्तेन, तद्वचः पृथिवीपते ! । नैव ताभ्यामभव्यत्वादङ्गीचक्रे मनागपि ॥ ५२ ॥ कालशौकरिको राज्ञा, सोऽन्धकूपे च चिक्षिपे । हिंसामेकामप्येन, वारयामि | हठादिति ॥ ५३॥ नृपः प्राप्तो द्वितीयेऽह्नि, वन्दनाय जगत्प्रभोः। प्रोवाच पालितः स्वामिन् !, मयेको नियमस्तयोः ॥५४॥ मुनीन्द्रः प्राह मिथ्यैतन्मृन्मयान्महिषान् यतः । तावतस्तत्र कृत्वाऽसौ, जघानेति निरीक्ष्यताम् ।। ५५ ॥ जाते क्रमेण यतस्य,
मत्यौ निकटवर्तिनि । कालशौकरिकस्याभूत् , तदिदानीं निगद्यते ॥५६॥ पञ्च पञ्च शतान्युच्चमहिषाणां विनिघ्नता । प्रत्यहं तेन | यत्कर्म, निर्मितं प्रचितं चिरात् ॥ ५७ ॥ तत्प्रभावान्महारोगाः, प्रादुरासन् शरीरके । तादृशा यादृशा शङ्के, सादृश्यं रौरवे भवेत् |
॥ ५८ ॥ हा हा हतोऽस्मि हा मात-म्रियते म्रियतेऽधुना । इत्याक्रन्दैस्तटस्थानां, कम्पयामास मानसम् ॥ ५९॥ न शय्यायां न ] भूपृष्ठे, नाभुञ्जानस्य नाश्नतः। नाप्सु पीतास्वपीतासु, सुखं तस्यास्ति सर्वथा ।। २६० ॥ वीणावेणुमृदङ्गादि-शब्दादिविषयैः क्षणात् । जायते. तस्य कोऽप्यन्तः, सन्तापः प्रतिवासरम् ।। ६१ ।। प्रविष्टमिष्ठकापाके, चितायामथवा स्थितम् । पच्यमानमिवात्मानमनात्मज्ञो विवेद सः ।। ६२ ।। स्वतातमातमत्यन्तमित्येवमवलोकयन् । आख्यदुःखी स्वमित्रस्याभयस्य सुलसोऽखिलम् ॥ ६३ ॥ विमश्य
कर्ममर्माणि, श्राद्धधर्मधुरन्धरः । अभयः कथयामास, तस्य तत्पुरतो यथा ।। ६४ ॥ तत्पित्रा मित्र ! संचिक्ये, चिरं तत्कर्मफल्म| पम् । सप्तस्वपि न यन्माति, भूमिषूपरि वर्त्तते ॥ ६५ ।। जन्मन्यत्रैव तत्तस्य, फलमेषोऽनुभाव्यताम् । कुरु त्वमिन्द्रियार्थानां, वैप
रीत्यमतोऽधुना ॥ ६६ ॥ इत्यवेत्य समेत्यासौ, सुलसः सत्त्वरं गृहात् । तीक्ष्णकण्टकशय्यायां, शाययामास तं क्षणात् ॥ ६७ ।। विलेपनमसद्गन्धैः, सर्वाङ्गीणमवीवृधत् । कट्वम्लतिक्तवस्तूनि, स्वयं भृशमभूभुजत् ।। ६८ ॥ इत्यनिष्टा जनविटा, इन्द्रियार्था यथा
PeeCeelCCCCerveena
॥५००॥