________________
उपदेशमालाविशेषवृत्तौ ॥ ४९९ ॥
शासने स्पष्ट-स्फटिकोपलनिर्मले । पापमेतत्प्रकुर्वाणः, कलङ्कस्तबकायसे || २५ || साक्षेपमाचचक्षे स त्वं किमेवं प्रजल्पसि । यत्र स्युस्तादृशाः श्राद्धाः किमन्यत्तत्र जायते ॥ २६ ॥ औणिको नास्ति मे कल्पः, किं व्रतं तं विना च मे । धर्मोपकरणे चिन्तां त्वं कदाचन किं व्यधाः ? ||२७|| मात्स्यैरेतैस्ततः कल्पं, क्रेष्यामि व्रतवृद्धये । नृपोऽजल्पदयुक्तोऽस्मि, मिध्यादुष्कृतमस्तु मे ॥ २८ ॥ रत्नकम्बलमादत्स्व, प्रसीद त्यज दुष्क्रियाम् । बोधयित्वेति तं भूयः पार्थिवः प्रस्थितः पुरः ।। २९ ।। प्रेक्षामास ततोऽप्येये, कज्जलाचितलोचनाम् । गर्भिणीमार्थिकां याच मानां हृट्टे वराटकान् ॥ २३० ॥ तत्रापि प्राणिनामेव, दुष्कर्मत्वमचिन्तयत् । जैनेन्द्रशासने शङ्कां न त्वल्पामध्यकल्पयत् ॥ ३१ ॥ तामप्यवीवदत्तद्वत् पार्थिवः साध्यदोऽवदत् । राजन् ! जातमिदं तावत्, किमतिक्रान्तचि न्तया ||३२|| साम्प्रतं प्रसवासत्तिस्तघृताद्यैः प्रयोजनम् । न चान्यास्ति गतिस्तेन, याचे हट्टे वराटकान् ||३३|| मा भूच्छासनमालिन्यमित्येकान्तगृहे क्वचित्। एनामानाययामास, मम (माभार ) भोभो इतोऽवदत् ||३४|| यदेवं नैव सम्यक्त्वात् कथंचिदचलत्ततः । प्रत्यक्षीभूय भूमिभृद्देवेनेदमभाष्यत ॥ ३५ ॥ भो भोः श्रेणिक ! यादृक्षस्त्तमृभुक्षापरीक्षितः । तादृक्ष एव जैनेन्द्रशासने त्वं सुनिश्चलः ॥ ३६ ॥ त्रिदशो दर्दुराङ्कोऽहं त्वत्परीक्षार्थमागमम् । मयैवाकारि सर्वेयं, कुष्टिसाध्वादिविक्रिया ॥ ३७ ॥ मनागपि न तु क्षोभः, समजायत जातु ते । न किं वज्रमणेर्भेदे, भिद्यन्ते लोहशुचयः ॥ ३८ ॥ तद्गृहाण विभो ! हारं, गोलकद्वितयं तथा । क्रोडार्थमिति गीर्वाणस्तस्मै तत्सर्वमापिपत् ।। ३९ ।। तारं हारं तथा छिन्नं, योऽमुं सन्धास्यते पुमान् । न जीविष्यत्यसावेव, मुक्त्वा सोऽन्तर्दधे सुरः || २४० || श्रेणिक चेल्लणादेव्यास्तं तारं हारमार्पयत् । गोलकद्वितयं तत्तु, सुनन्दायाः प्रदत्तवान् ॥ ४१ ॥ तेनानन्दमविन्दाना, सुनन्दा प्रकटेया । भित्तावास्फोटयामास, तौ गोलौ स्फुटितौ स्फुटम् ॥ ४२ ॥ तस्मादकस्मादेकस्माद्विस्मयैकनिकेतनम् । देवदूष्यद्वयं सद्यः प्रादुरासीद्विकस्वरम् ॥ ४३ ॥ द्विधाभूताद्वितीयस्मात्पुष्पदन्तद्वयद्युति । कुण्डलद्वितयं दिव्य-रत्नरम्यं प्रकभूत् ॥ ४४ ॥ चलणा च सुनन्दा च, देव्यौ द्वे अपि तत्क्षणात् । हर्षोत्कर्षेण रत्नानि तान्यङ्गेष्वप्यनह्यताम् ॥ ४५ ॥ नृपेणापि गृहं गत्वा, जल्पिता कपिला स्वयम्। देहि भिक्षां तपस्विभ्यो, याचसे यद्ददामि तत् ॥ ४६ ॥ साऽवादीयदि मां देव ! सर्वामपि
श्रेणिक
सम्यक्त्वपरीक्षा |
॥। ४९९ ।।