________________
उपदेशमाला| विशेषवृत्तौ
॥४९७॥
emercreepercenecrazmeezeroe
अपराऽऽह त्वरस्व त्वं, यास्यावः सममेव वां । पत्याहमनुजज्ञे तत् , पृच्छ त्वमपि वल्लभम् ।। ८१ ॥ पानीयहारिकाशब्दानित्या- |y दीन् दुर्दुरः स तान् । आकर्णयंस्तदा दध्यौ, पूर्वकृतमिदं क्वचित् ।। ८२ ।। स्यात्पुनः क्वेति तात्पर्यादीहापोहं प्रकुर्वतः । संज्ञि- दर्दुरदेवात्वात्तस्य संजज्ञे, जाणिस्मरणमुज्वलम् ।। ८३ ।। मां धृत्वा स पुरद्वारि, द्वारपालं यमर्हितुम् । आसीद्गतः स एष स्यादागतो भग ख्यानकम् । वान्बहिः ।। ८४ ॥ तदा न वन्दितो येन, मया पापीयसा प्रभुः । तेन दुर्दुरता सेयं, फलं तस्यानुभूयते ॥ ८५ ॥ तत्साम्प्रतमपि स्वस्य, पूरयामि मनोरथान् । परः कोऽवसरः स्यान्मे, क्व कदा वेति वेदकः ।। ८६ ।। सार्द्ध श्रद्धावताऽनेन, जनेन प्रणिनंसुना । भदन्तं वन्दितुं यामि, स्वीकरोम्यद्भुतं फलम् ।। ८७ ।। उत्प्लुत्योत्प्लुत्य मत्पाव, यावदायातुमुद्यतः । तावत्त्वत्तुरगेणासौ, खुरेणाक्रम्य चूर्णिणतः ॥ ८८ ॥ प्रधानप्रणिधानस्यानुभावेन मृतस्ततः। द१राकेषु देवेषु, प्रादुरासीन्महासुरः ॥ ८९ ।। जीवानां भावसंशुद्धिर्विज्ञेया साध्यसाधनी । अन्यथालिङ्ग्यते कान्ता, दुहिता पुनरन्यथा ।। १९० ॥ क्रियाशून्यो हि यो भावो, भावशुन्या च या | क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ ९१॥ तदस्य भावसंशुद्ध-बंद्धबुद्धेः शुभाध्वनि । अभूदेवतयोत्पत्तिस्तद्भावः पुण्यकारणम् ।। ९२ ॥ श्रीवीरस्यैष पृथ्वीशः, श्रेणिकः श्रावकाऽग्रगीः । मयाऽपि तीर्थकद्भक्तेः, शक्यश्चालयितुं न हि ॥९३।। श्रेणिक ! त्वं सुधर्मायां, सभायामित्यशस्यथाः । अग्रतः स्वर्गिवर्गस्य, समग्रस्य बिडोजसा ।। ९४ ॥ एतदश्रद्दधानोऽसौ, त्वत्परीक्षार्थमागमत् । अमरः कुष्टिरूपेण, त्वदृष्टेमोहमादधौ ॥ ९५ ॥ गोशीर्षचन्दनेनाहो, सिञ्चति स्म मदादरात् । त्वया तु रसिकासेकं, करोतीति निरक्ष्यत ॥ ९६ ।। यत्पुनः प्रोक्तवानेष, म्रियस्वेति मया क्षुते । तदभक्त्या न भक्त्यैव, सत्प्रयोजनमब्रवीत् ॥ ९७ ॥ व्याख्याक्षुदादिखेदेन, किमर्थ स्थीयते भवे । मोक्षमेकान्तसौख्यं त्वं, मृत्वा याहीति सोऽवदत् ॥ ९८ ॥ प्राज्यराज्यार्जितं सौख्यं, जीवतो जगतीश ! ते । मृत्यौ तु दुर्गतिस्तेन, त्वां जीवेति गिराऽगृणात् ॥ ९९ ॥ त्वत्सुनोर्जीवतः पुण्यं, मृतस्य सुरसम्पदः । यदृच्छा तेन तेनोक्ता, जीव वा त्वं म्रियस्व वा ॥ २०० ॥ कालसौकरिकः प्राणान् , पापमापद्यतेतराम् । मृतस्तु दुर्गतो गन्ता, निषिद्धस्त
||४२७॥ भयादपि ॥१॥ अथाकात्मनः पातं, दुर्गतौ श्रेणिकः क्षणात् । कामं श्याममुखच्छायस्तीर्थनाथं व्यजिज्ञपत् ॥ २ ॥ युष्माह
Pcccccceremocrace..