________________
दर्दुरदेवा
उपदेशमालाविशेषवृत्तौ
ख्यानकम्।
॥४९६॥
फलम् ॥ ५८ ॥ पुत्रैः प्रजल्पितं पाप ! किं तबैतद्विजृम्भितम् । तेनोक्तं मां विना शक्तिः, कस्य स्यादीदृशी भुवि ॥ ५९॥ आः पाप ! किं त्वयेदृक्षं, विरुद्ध धर्मलोकयोः । निस्तूंशेन समाचीर्णमित्युचुस्तेऽतिदुःखिताः ॥ १६० ॥ तेनोक्तं किं रे पापा ! मामाक्रोशथ दुर्मुखाः । किं नाम विस्मृतं यद्बो, यत्ताते मय्यनुष्ठितम् ॥ ६१ ॥ महतोऽपि स्वदोषान्नो, परदोषांस्त्वणूनपि । पश्यत्यपूर्वमन्धत्वमहो लोकस्य दृश्यते ।। ६२ ।। तं क्रूरकलहाक्रोशैः, साकं पुत्रैरुपस्थितम् । लोकोऽप्यालोक्य धिग्जाति, धिकत्तुं प्रावृतद्यथा ।। ६३ ॥ स्वयमारोपितारामे, पत्रपुष्पफलस्फुटे । स्वकुले किं त्वया पाप ! प्रदत्तोऽयं तनूनपात् ॥ ६४ ॥ प्रतीतं प्राकृतस्यापि यत्ते तदपि विस्मृतम् । “विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसाम्प्रतम्" ।। ६५ ।। धिक्कारानिति दुर्वासनाप्नुवन्ननिशं जनात् । अस्वल्पकज्जलालेप-श्यामलास्यीभवंस्तथा ॥ ६६ ॥ दीनो दिवसमप्येकं, तत्र स्थातुमपारयन् । निशीथे निरगान्निःश्री-भूप! हे प्रापिवानिह ॥ ६७ ॥ अजानन् जीविकामन्यां, गोपुरद्वारपालकम् । प्रारेभे सेवितुं सम्यगभूद्विश्रम्भभाजनम् ॥ ६८ ॥ कदाचिद्वयमत्रैव, स्वविहारक्रमोद्यमात् । राजन् । राजगृहद्वारि, प्राप्तास्त्वां चाभिवन्दितुम् ॥ ६९ ॥ ततो दौवारिकेणासावुक्तो भद्र ! अभिवन्दितुम् । भगवन्तं ब्रजिष्यामि, त्वया पुनरिहास्यताम् ।। १७० ॥ तावत्क्वापि न गन्तव्यं, स्थानादस्माद् ध्रुवं त्वया । यावदेम्यहमित्युक्त्वा, तेन | मत्पार्श्वमाययौ ।। ७१ ॥ द्विजस्तु तस्थिवांस्तत्र, दुर्गादेवीपुरस्थितम् । नैवेद्यं निगिलन्नुच्चे-ननाम विरराम सः ।। ७२ ।। बाहुल्या
बलिभक्ष्यस्य, जिह्वालाम्पट्यपाटवात् । रङ्कराजवदात्मानं, कण्ठपूरमपूरयत् ॥ ७३ ॥ भक्षणानुक्षभक्ष्यस्य, ग्रीष्मत्वात्समयस्य च । उदन्या दुःखितोऽध्यायत् , धन्यास्ते मत्स्यकच्छपाः ॥ ७४ ।। आर्गेनतेन तिर्यक्षु, बद्धायुर्बाधितस्तृषा। आरटन्नुन्मुखो मूर्खः, क्षणाप्राप्तः परासुताम् ॥ ७५ ।। अत्रैव नगरे वाप्यां, दर्दुरीगर्भतां गतः । जज्ञे स समये संज्ञी, प्राप्तवान्प्रौढतां क्रमात् ॥ ७६ ॥ विहारक्रमयोगेन, वयमत्र पुरे पुनः । प्राप्तास्त्वमपि भूपेन्द्र ! वन्दनार्थमुपागतः ॥ ७७॥ पुरक्षोभोऽभवद्भूयः, प्रोचुः पानीयहारिकाः। सद्धर्मदेशनावाक्य-रहस्याकर्णनोत्सुकाः ।। ७८ ॥ एका प्राह हला देहि, मार्गमग्रं च मुश्च मे । यास्यामहं जिनं नन्तुममिष्टोतुमुपासितुम् ।। ७९ ।। अन्याह नागमः किं त्वं, श्वः कि तेऽपि कर्कशा। पापामृतं वहाम्येतल्लभे धर्मामृतं न तत् ॥१८॥
पुर पुनः । प्राप्तास्त्वमपि भूगल एका प्राह हला देहि, मार्यमृतं वहाम्येतसमे धर्मा
॥४९६ ॥