________________
उपदेशमाला
विशेषवृत्तौ|
दर्दुरदेवाख्यानकम्।
॥ ४९५ ॥
RCommerPCRORRECORDC
जैनमुनेरिव ॥ ३६ ।। युग्मम् । तपनातपसंपातात् , क्षुद्रसत्वभयादपि । उष्णे तृष्णगतीवाभूदम्भोऽन्वेष्टुं प्रचक्रमे ॥ ३७ ।। अम्भोथ भ्राम्यता तेन, गिरीणां गह्वरोदरे। क्वचिदालोकयां चक्रे, तज्जीवितमिवात्मनः ॥ ३८ ॥ कलिमशमीधात्री, पिचुमन्दाऽभयादिभिः । सर्वतः संपरिक्षिप्ते, हृदे तुच्छजलास्पदे ।। ३९ ॥ तीरवृक्षावलेः पत्रैः, फलैः पुष्पैश्च सन्ततम् । पतद्भिः कल्कवजातं, तत्र ग्रोष्मोष्मणा जलम् ॥ १४० ॥ तदृष्ट्वा हृदयं तस्य, समुच्छश्वास तत्क्षणात् । इन्द्रियाणि च जातानि, स्वार्थग्रहपटून्यलम् ॥ ४१ ॥ तेन विश्रम्य विश्रम्य, कल्काकारं जलं ततः। प्रारेभे पातुमत्यन्तं, पिपासाविगमार्थिना ॥ ४२ ॥ यथा यथौषधक्वाथकल्पं तत्स पयोऽपिबत् । तथा तथाऽस्य संजज्ञे, विरेकः कृमिजालवान् ।। ४३ ॥ पथ्यं हरीतकीधात्री, फलैरेव प्रकल्पयन् । सेवते स्म धनच्छायां, सदा तेषां महीरुहाम् ॥ ४४ ॥ एवं कतिपयैरेव, वासरैस्तच्छरीरकम् । चक्रे रसायनेनेव, नीरुक्तेनाम्बुनाऽधिकम् ॥४५|| या न चिन्तयितुं शक्या, न कत्तुं नापि भाषितुम् । साऽप्यवस्था भवत्येव, विधावभिमुखे सति ।। ४६ ।। अनुकूले विधौ पुंसां, विषमप्यमृतायते । विपरीते पुनस्तस्मिन्नप्यमृतं विषायते ॥ ४ ॥ विधिः पितेव सर्वत्र, कदाचित् परिरक्षति । कदाचित्पीडयत्येव, दायाद इव दुईमः ।। ४८ ॥ न यत् पुरुषकारेण, साध्यं धीसम्पदा न च । तदेकं देवमेवेह, बलिभ्यो बलवत्तरम् ।। ४९ ॥ परोपतापिना सौख्य, दौस्थ्यं परहितैषिणाम् । यदत्र जायते सोऽयमन्यायोऽस्य महान्विधेः ।। १५०॥ अथ तेन स्वदेहस्य, वीक्ष्य सौन्दर्यसम्पदम् । चिन्तितं दर्शयाम्येतां, स्वलोकाय वपुःश्रियम् ॥५१॥ किं तया सारयाऽप्यत्र, जातया सम्पदा नृणाम् । यो न पश्यन्ति लोकाः स्वे, प्रमादोत्फुल्ललोचनाः ॥ ५२ ॥ पुत्राः सह कलत्रैश्च, श्रयन्ते यादृशीं दशाम् । पश्यामि तादृशों तेषां, तां च तातैकविद्विषाम् ॥ ५३ ।। स्वयं संपादितं सद्यो, द्विषां द्वेषस्य यः फलम् । स्वचक्षुभ्यां निरीक्षेत, जन्म तस्य प्रशस्यते ॥ ५४॥" इत्यालोच्य दुराचारः, स स्वपत्तनमीयिवान् । कथंचित्प्रत्यभिज्ञातः, पपृच्छे सहवासिभिः ॥ ५५ ॥ केन भद्र ! तवापास्तं, तत्कुष्ठं सुष्ठु निष्ठुरम् । स प्राह सुप्रसन्ना मां, देवतेवंविधं व्यधात् ।। ५६ ॥ तरुक्तं त्वं कृती विप्र ! प्रसन्ना यस्य देवता । स्तूयमानो जनरेवं, स विवेश स्वमन्दिरम् ॥ ५७ ॥ दृष्ट्वा तान् कुष्ठिनः पुत्रान् , सकुटुम्बानवोचत । सहर्ष मदवज्ञाया, भवद्भिर्भुज्यता
॥४९५॥
C.