________________
उपदेशमालाविशेषवृत्तौ|
दर्दुरदेवाख्यानकम्।
DonRCARoma2zeceDEOKA
प्राह, प्राणस्वामिनि ! सर्वथा । त्वत्प्रसादान्मया कश्चिदर्थोपायो न शिक्षितः ॥ ७३ ॥ कुर्वे किमादिशेदानी, स्वमत्या साऽब्रवीदिदम् । श्रीशतानीकदेवस्य, कुरु सेवा सुनिष्ठुराम् ।। ७४ ।। यतः-“ सुवर्णपुष्पां पृथिवीं, चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्वः, यश्च जानाति सेवितुम् ॥ ७५ ॥" ततः सर्वात्मना मूर्खग्रहेण गृहिणीमुखः । सेवते स शतानीकं, ढोकयन् कुसुमादिकम् ।। ७६ ।। सेवाग्रहमुदीक्ष्याऽस्य, नृपोऽवोचत्कदाचन । तुष्टस्ते सेवया विप्र !, प्रयच्छामि यदिच्छसि ॥ ७७ ॥ तेनोक्तं कृतकृत्योऽस्मि, प्रसादादेव देव ! ते । प्रार्थयिष्ये विशेषेण, यद्भणिष्यति भट्टिनी ॥ ७८ ॥ आराधयाम्यहोरात्रं, देव ! तां देवतामिव । भोक्तास्मि कापिलात्म्येव, कर्वी सर्वत्र सैव मे ॥ ७९ ॥ अत्याजवं विलोक्यास्य, स्मित्वा भूपतिरम्यधात् । याहि तत्पृच्छ्यतां तत्त्वमित्युक्तोऽसौ गतो गृहान् ॥ ८० ।। ब्राह्मणीमभणद्भद्रे ! नृपतिर्मेऽद्य तुष्टवान् । तब्रूहि राज्यवाज्यादि, प्रार्थये पार्थिवं कियत् ।। ८१ ॥ चतुरा चिन्तयामास, सा स्वायतिविलोकिनी। अस्यावश्यं भविष्यन्ति, हुं तरुण्योऽपराः प्रियाः ।। ८२ ।। यतः-प्रवर्द्धमानः पुरुषस्त्रयाणामुपघातकः । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम् ॥ ८३ ॥ तयोक्तमथ राज्येन, किं द्विजानां सपाप्मना। प्रार्थनीयं तदेवात्र, यल्लोकद्वयसाधकम् ।। ८४ ।। मार्गणीयस्ततो भूभृत् त्वया ग्रासनभोजनम् । दीनारो दक्षिणायां च, धौतपोतिकया समम् ।। ८५ ॥ अस्माकमियता किं न, प्रत्यहं परिपूर्यते । एकां च घटिकां यावद्धान्यो (द्वाच्यो) जल्पमुपांसु सः ॥ ८६ ॥ किं न श्रुतं त्वयाकालेऽनात्सघृतादुष्णादच्छिद्रात् सितवाससः । अपराऽप्रेष्यभावाच्च, शेषमिच्छन्पतत्यधः ॥ ८७ ।। एनमादेशमादाय, स ययावुपपार्थिवम् । यथोक्तं प्रार्थयामास, प्रत्यश्रोषीन्नृपोऽपि तद् ॥८८॥ ततः प्रभृति तत्सर्व, कुर्वाणं वीक्ष्य भूभुजम् । चिन्तयामासुरन्येऽपि, भूपतेः पार्श्ववर्तिनः ।। ८९ ॥ महाप्रसादमेतस्य, प्रत्यहं कुरुते नृपः। यतोऽतो वयमप्येतं, पूजयामः प्रयत्नतः ॥ ९० ॥ यतःयथा व्यालगजारोहः, कालसर्पोपसर्पणम् । पिशाचपरिषत्प्राप्तिस्तथा सेवा महीभुजाम् ॥ ९१ ॥ ये सदैव मृदूत्ताल-द्विजिह्वाश्रयतां गताः। नृपाः सर्पाश्च ते लोके, कस्य विश्वासहेतवः ॥ ९२ ।। क्षारचित्ते कृते राज्ञि, तत्कदाचन केनचित् । स्यादस्मादपि सानिध्यं, भूपतेरतिवल्लभात् ॥ ९३ ॥ एवं विचिन्त्य सोऽमात्यो, द्वाःस्थितान्तपुरादिभिः । भोज्यते स्वगृहं नीत्वा, दीयते दक्षिणां क्षणात् ।।९४॥
Demezeeeeeperoececa
॥४९२॥