________________
उपदेशमालाविशेषवृत्तौ ॥ ४९० ॥
लोल-पताकाप्रान्तकम्पिनी । समप्रभोगसामग्री - व्यग्रीभावेककारणम् ॥ ३१ ॥ दरिद्रः क्षुत्पिपासाभ्यां विघ्नाधिव्याधिभिर्धनी । प्रायेण लोकः सर्वोsपि, शोकशङ्कुसमाकुलः ।। ३२ ।। असारेऽत्यन्तमेतस्मिन् संसारे सर्वथा सताम् । युक्तं सद्धर्मकर्मैव, कन्तु तस्माद्विमुक्तये ।। ३३ । मुनीनां श्रावकाणां च स धर्मोऽभिदधे द्विधा । क्षमादिर्दशधा तत्र यतिधर्म उदाहृतः ॥ ३४ ॥ द्वादशा णुत्रतादिस्तु श्राद्धधर्मः प्रकीर्त्तितः । यथावद्विस्तरेणेष, द्विविधोऽपि प्रकीर्त्तितः ।। ३५ ।। देशनान्तर्गलत् कुष्टकुष्ठिरूपधरोऽमरः । नृपभ्रान्तिकृते नत्वा, निषसादाऽन्तिकप्रभोः ॥ ३६ ॥ स प्रीतिपुलकव्यक्त्या, भक्त्या त्रिभुवनप्रभोः । गोशीर्षचन्दनेनांही, आलिलेप तथा यथा ।। ३७ ।। श्रेणिको लक्षयामास तत्रैव निकटस्थितः । रसिकासेकमाधत्ते, पापोऽसौ स्वामिपादयोः ॥ ३८ ॥ ततोऽसौ चिन्तयामास, रोषरुषितमानसः । पापः करोति कीदृक्षमक्षुद्रं क्षतमक्षतः ॥ ३९ ॥ यः पूज्यः सर्वदेवानां यो वन्द्यो विश्वभूभुजाम् । तमप्येवमयं मूर्खः पूयेन परिषिञ्चति ॥ ४० ॥ " तस्याजननिरेवास्तु, प्राणिनः पापकर्म्मणः । परिभूतं गुरुं दृष्ट्वा, यस्तिष्ठति निराकुलः ।। ४१ ।। ” तस्मादाकृष्टखड्गेन, स्वहस्तेन क्षणोम्यमुम् । यद्वा युक्तमिदानीं नेतत्, त्रिलोकीतिलकान्तिके ||४२ || यत्संनिधौ जिनेन्द्राणां मारिखेराद्युपद्रवाः । विद्रवन्ति दूतं सर्वे, दूरतो दुरितानि च ॥ ४३ ॥ तस्मादस्मादयं स्थानात्, तावन्निर्यातु पातकी । दर्शयामि फलं येन, दुर्व्यायविषशाखिनः ॥ ४४ ॥ श्रीमद्वीर जिनेन्द्रेण, प्रस्तावेऽत्र क्षुतं कृतम् । तच्छ्रुत्वा कुष्ठिना तेन, म्रियस्वेत्युदितं वचः ॥ ४५ ॥ क्षुते राज्ञा पुनः प्रोक्तं, जीव त्वं जगतीपते ! । म्रियस्व जीव वेत्युक्तं, तेन जातक्षुते भये ॥ ४६ ॥ कालसौरिकोऽक्षौषीत्, क्षणे तत्र ततोऽवदत् । मा जीव मा म्रियस्वेति, कुष्ठी निष्ठुरया गिरा ॥ ४७ ॥ विष्टपैकप्रतीक्ष्येण क्षुते यत्कुष्ठिना क्षणात् । म्रियस्वेत्युदितमासीत्, तेनोत्पन्नघनकुधा ॥ ४८ ॥ क्षिप्रमेव स्वयं राज्ञा, संज्ञिताः स्वपदातयः । स्थानादुत्थितमेतस्मादेतं गृह्णीत कुष्ठिनम् ॥ ४९ ॥ कथान्तेऽथ स उत्थाय, नत्वा नाथं च निर्ययौ । उत्तस्थुस्वरितास्तेऽपि पृष्टलग्ना पदातयः ||५० || प्रेक्ष्य पृष्ठस्थितानेतान्, कृष्टखड्गोद्भटान्भटान् । तेषां स कौतुकं कत्तु, सुरीभूय नभोऽभजत् ॥ ५१ ॥ तैस्ततोऽचिन्ति वैलक्ष्यरुक्षवक्त्रेः परस्परम् । प्रेक्षमाणैरयं मायागोलकः कोऽपि किं भवेत् ॥ ५२ ॥ श्रीश्रेणिकस्य तं वृत्तं वृतान्तं प्रत्यपीपदत् । स्वामिन्!
दर्दुरदेवाख्यानकम् ।
॥। ४९० ॥