________________
उपदेशमालाविशेषवृत्तौ |
दर्दुरदेवाख्यानकम्।
॥ ४८८॥
तदस्ति । मरणमाया कायं न करोल
perce
लोको हित इतिवस्येच्छया अनेन
CeRPOROPERCIRCareeroeerone
॥ ३६॥ एतदेवाह-"जो सुत्तत्थ " गाहा । यः कश्चित्सूत्रार्थविनिश्चयेन श्रुतसारग्रहणेन कृतो विहितः सामर्थ्यादात्मन्यागमो भगवद्वचनं येनासौ सूत्रार्थविनिश्चयकृतागमः। 'सो लिक्खइ' त्ति स साधुलेख्ये लिख्यति तस्य साधुगणनायां रेखा दीयते नान्यस्येत्यर्थः ।। ३७ ॥ अत एवाह-" बहु" गाहा । बहुभिरज्ञानप्रधानक्रोधादिभिर्दोषैः संक्लिष्टः प्रबाधितः केवलमात्मानं मलिनयति चञ्चलस्वभावो विषयादौ चटुलचित्तः । ‘सुष्ट्वपि'-गाढमपि व्यायामयन् प्रेक्षापूर्वकारिमन्यतया कायं न करोति कंचिद्गुणं कर्मक्षयादिकमिति ॥ ३८ ॥ स तर्हि सम्यगनुष्ठानं कर्तुमशक्नुवन् म्रियता, नैतदस्ति । मरणमपि गुणवतां श्रेष्ठं यत आह-“केसि चि” गाहा । ' ददुरदेविच्छाए ' त्ति दर्दुराङ्कस्य देवस्येच्छया अनेन संविधानकं सूचितम् ॥ ३९ ॥ एतमेवार्थ भङग्यन्तरेणाह"केसि चि" गाहा-केषांचित् परलोको हित इति गम्यते । अन्येषामत्र जगति इहलोको-वर्तमानो भवो भवति हितः । कस्यापि लोको हितौ कस्यापि द्वावपि हितौ लोकावहितत्वात् । कथमेतदुपपद्यत इत्यत्र दुर्दुरदेवाख्यानकमाख्यायते ॥ ४४० ॥ त्रिषष्टिनरवैडूर्य-शलाकाकुरजन्मभूः । भारतं क्षेत्रमस्त्यस्मिन् , मगधो जनपदो महान् ॥ १॥ ग्रामाः-कुक्कुटसंपात्या, धान्यगोधनसंभृताः। यत्र नद्यः प्रतिक्रोशं, सान्द्रमविराजिताः ॥ २॥ यत्र च-प्रामाः सरोभिराभान्ति, सरांसि नलिनीवनः । नलिन्यः पद्मसंघातैः, पद्मानि भ्रमरोत्करैः ॥ ३ ॥ तत्रास्ति प्रकटं लोके, पुरं राजगृहाभिधम् । प्राकारशिखराढ्येन, प्राकारेण विराजितम् ॥ ४ ॥ यतयो यत्र दृश्यन्ते, नारंगीतरसांचिताः । सद्बोधिबीजपूराश्च, क्रीडारामोत्तमस्तथा ॥ ५॥ यस्मिन्नक्षजयो बन्धो, मारश्वास्ति स्म सारिषु । विपदापि सदाराति चक्राकान्तिश्च वारिषु ।। ६ ॥ उत्तुङ्गसौधशिखरोपरिवर्तिनीना-मालोकयन्वदनचन्द्रमसं व. धूनाम् । यत्रातः कवलनाय कलङ्कलिङ्गात् राकानिशाकरमवेदिह सेहिकेयः ।। ७ ॥ हप्तारिमत्तमातङ्ग-कुम्भकुट्टाकखगभृत् । तत्राभू
भूपतिःश्रीमान् , श्रेणिको विश्रतः सताम् ।।८।। श्रीमद्वीरजिनेन्द्रस्य, स्वामिनः सिद्धिगामिनः । यः प्रणाम किणव्याजादङ्कभाले न्यवीविशत् ॥ ९॥ यश्चाभ्युदयिकी दृष्टिं, क्षायिकीमपि लब्धवान् । भाविदेवचतुर्विशत्यादिमोऽनवमोऽपि सन् ॥ १० ॥ बभूव यस्य ध्वजिनीनिवेशः, करीरवीरः कलिकोपकारी। प्रत्यर्थिपृथ्वींद्रवधूव्रजश्व, करीरवीरः कलि(रि)कोपकारी ॥ ११ ॥ स्कन्धे सूत्रत्रयं तच्छ्
॥४८८॥