________________
उपदेशमाला| विशेषवृत्तौ
एक कार्यवतं खण्डयन् भवे भ्रमति ।
॥४८७॥
विराधयन् कि ?, अमानां'-शक्रादीनां 'राजा'-प्रभुस्तस्य सम्बन्धिनीं हन्ति, बोधिं बुध्यतेऽनयेति बोधिः, कारणे कार्योपचारादाज्ञा तां तद्द्वारेण प्रेत्य जिनप्रणीतधर्मप्राप्तिरूपां वा बोधि खण्डयतीति ॥ ३१-३२ ॥ " तो हय" गाहा । 'कयावराहाणुसरिसं' ति-क्रियाविशेषणं विहितातिचारानुगुणं यथा भवत्येवं भ्रमति । इदमिति ज्ञानिनां प्रत्यक्षममितमनन्तं पुनरपि ब्रतलाभात्प्रागिव । ‘भवोदहि' त्ति लुप्तसप्तम्यन्तं पदं तस्मिन् भवोदधौ जरामरणाभ्यां दुर्गे पतितः सन्नित्यर्थः ॥ ३३ ॥ अन्यच्चासाविहलोकेऽपि खपरयोरपकारीत्याह-" जइया" गाहा-यदाऽनेनापुण्यवता त्यक्तमात्मीयं ज्ञानदर्शनचारित्रं तदा तस्य परेष्वनुकम्पा नास्ति जीवेषु । तथा चोक्तम्-परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽतिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः ॥१॥ एतदेव विशेषेणाह-“छक्काय " गाहा 'लिंगावसेसमित्ताणं ' त्ति-भक्षितसर्वसंयमत्त्वेनोद्धरितरजोहरणमात्राणाम् । 'बहुअस्संजमपवहो' त्ति बहुर । संयमप्रवहस्तत्कार्यत्वात्पापौघो भवति । स च तिलादिक्षार इव क्षारः । यथाहि-कश्चित्क्षारो वस्त्रादिकं दग्ध्वा मलिनं करोति, तथा पापौघोऽपि तं जीवमिति ।। ३५ ॥ कथं भगवल्लिङ्गयोगेऽपि पापसम्बन्ध इति यश्चिन्तयेत्तं व्युत्पादयितुमाहकिं लिंगमिडरीधारणेग जम्मि अट्टएि ठाणे । राया न होइ सयमेव, धारय चामराडोवे ॥ ४३६ ॥ जो सुत्तविणिच्छिय-कयागमो मूलउत्तरगुणोहं । उव्वहइ सयाऽखलिओ, सो लिक्खइ साहुलिक्खम्मि ॥ ४३७ ॥ बहुदोससंकिलिट्ठो, नवरं मइलेइ चंचलसहावो। सुटूलु वि वायामितो, कार्य न करेइ किंचि गुणं ॥ ४३८॥ केसिचि वरं मरणं, जीवियमन्नेसिमुभयमन्नेसिं। ददुरदेविच्छार, अहियं केसिंचि उभयपि ॥ ४३९ ॥ केसिंचि य परलोगो, अन्नेसिं इत्य होइ इहलोगो। कस्सवि दुण्णिवि लोगा, दोऽवि हया कस्सई लोगा ॥४४०॥
कि वेषस्फटाटोपविधानेन कार्य संयमरूपे स्थाने स्थिते सति साधौ । अत्र दृष्टान्तः- राया न होइ' त्ति यथा पृथ्वीरक्षा दिलक्षणस्य राज्यकार्यस्याभावे चामरछत्राद्याटोपमात्रेण राजा न भवत्येवं लिङ्गमात्रेण साधुर्न भवति । किं तर्हि ? संपूर्णानुष्ठानेन
॥४८७॥