________________
उपदेशमालाविशेषवृत्तौ
॥ ४७२ ॥
अथ चतुर्द्दश्युपवासश्चतुर्द्दशी सत्क एव न पाक्षिकप्रतिबद्धस्तर्हि चतुर्मासकेऽपि प्रथमोपवासस्य चतुद्दशीपर्वप्रतिबद्धत्वेन द्वितीयोपवासस्यैव चतुर्मासकसत्कत्वेन ' अट्टमचउत्थ चउत्थमिति ' स्यात् । अथ चतुर्मासकपर्वणो महत्त्वात्तत्तपोऽन्तर्मग्नमेव चतुर्दशीतपस्तर्हि पाक्षिकोऽप्येवमस्तु चतुर्द्दश्ये काहपर्वापेक्षया पाक्षिकस्यापि महत्वादेवं च तत्रापि षष्ठमेव भवेत् । अथ चतुर्मासकापेक्षया पाक्षिकस्य लघुपर्वत्वात् लध्वेव तत्र तपश्चतुर्थं युक्तं सांवत्सरिकतपाऽपेक्षया चातुर्मासिवत् । सत्यमेतत् किन्तु चतुर्दश्यामेव पाक्षिके क्रियते तदुद्घटते चतुर्द्दश्युपवासस्यैव पाक्षिकचतुर्थत्वात् । यदि पञ्चदश्यां पाक्षिकं पूर्वेषां संमतं स्यात्तदा पाक्षिकेऽपि षष्ठमेव ब्रूयुरेकस्मिन्ने वोपवासे चतुर्थव्यपदेशदर्शनाद् द्वयादिषु तेषु षष्ठादिव्यपदेशस्यैव संभवादन्यथा व्यपदेशाऽव्यवस्थाप्रसंगात् । ततः प्रस्तुते चतुर्थोपदेशाच्चतुर्दशी पाक्षिकयोरैक्यमेव तेषां सम्मतमिति निर्णीयते । इतश्चैवमेकतरस्योपादाने ऽन्यतरस्यानुपादानात् । तथाहि - ' अट्ठमीचउद्दसीसुं उववासकरण ' मिति पाक्षिकचूर्पिणः ॥ सो य सावओ अट्ठमिचउद्दसीसुं उववासं करइ पोत्थयं च वाएइ ॥ इति निशीथचूणिः । इत्यादिसूत्रेषु हि चतुर्दश्येवोपोत्ता न पाक्षिकम् । अट्टमीपक्खिए मोत्तुं वायणाकालमेव य । सेसकालमयंतीओ, नायव्वाऽकालचारिओ ॥ १ ॥ इति चत्थछट्ठट्ठमकरणे अट्ठमिपक्खचउमासवरिसेसु । इति च व्यवहारभाष्यम् । एवमादिषु तु सूत्रेषु पाक्षिकमेवो पात्तं न चतुर्दशी ॥ तथा अट्ठमिचउदसी नाणपंचमी चउमास संवच्छरिएसु चउत्थच्छट्टट्ठमे न करेइ तो पच्छित्तमिति ॥ महानिशीथसूत्रे सर्वत्रतिपर्वप्रतिपादके पाक्षिकमेवैकं वराकमिति पक्तिवञ्चितं क्रियते ततश्चतुर्दशी पाक्षिकयोरैक्यमिति निश्चयते । अन्यथा तु क्वचिदुभयोपादनं स्यादेव ॥ अथ - कत्थइ देसग्गहणं, कत्थइ घिष्पंति निरवसेसाई । उक्कमकमजुत्ताई, सुत्ताण विचित्तभावाओ ||१|| इति वचनात् क्वापि चतुर्दश्याः क्वापि पाक्षिकस्योपादानमिति चेत्, ननु महानिशीथे यतीनां स्थितिपर्व सर्वसंप्रहे चतुर्दश्युपादाने पि पृथक् पाक्षिकं विशेषपर्व चतुर्मासिक-संवत्सरिकाभ्यां सार्द्धं नाभिधीयत इति कैषा वाचोयुक्तिः । किंच प्राञ्जलं पन्थानमास्थाय - 'कत्थई देसग्गहण' मिति वक्रेण पथा प्रस्थीयतां यदि पञ्चदशी पाक्षिकमिति कुतोऽपि सिद्धं स्यान्नचामुद्रेऽव्यागमसमुद्रे प्रत्यक्षरमीक्षमाणैरपीक्ष्यत एतदिति विमुच्याभिनिवेशसंनिगृह्याग्रहं चतुर्दश्युपवास एव पाक्षिकचतुर्थमित्यास्थीयताम् ॥ यतः -
संवत्सरचातु| मसपाक्षिक तपश्चर्चा |
।। ४७२ ।।