________________
Dec
उपदेशमालाविशेषवृत्तौ
॥४७१॥
expezaeroecoemocraelimewana
न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं । चरइ अणुबद्धवासे, सपक्खपरपक्खोमाणे ॥ ३६८॥ संजोअइ अइबहुअं, इंगाल सधूमगं अणट्ठाए । भुंजइ रूवबलट्ठा, न धरेइ अ पायपुंछणयं ॥ ३६९ ॥ पार्श्वस्थादिनां
दोषस्थानानि। " खित्ता" गाह । क्षेत्रातीतमतिकान्तद्विगव्यूतमशनादि भुक्ते । कालातीतं ग्रहणकालात् पौरुसीत्रयातिवाहनेन । अविदत्तं च स्वाम्यादिभिः ॥ “ठवण" गाहा । स्थापनाकुलानि न स्थापयति ॥ “रीयइ" गाहा । रीयते-गच्छति । 'दवदवाए' त्ति-सत्वरतरम् । 'रायणिए' ति-रत्नाधिकान्पर्यायेण महतः ॥ “ विजं" गाहा। विद्या-देव्यधिष्ठितां मन्त्रं देवाधिष्ठितयोगं विशिष्टौषधसमवायं भूतिकर्मरक्षाकण्डक-पोट्टलिकादि ॥"कजण" गाहा। कार्येण विना-निष्प्रयोजनमवग्रहं देवेन्द्रादीनामनुज्ञापयति । स्त्रीनिषद्यासु तदुत्थानानन्तरमभिरमते ॥ “ उच्चारे" गाहा । अनायुक्ताऽयतनया उच्चारादिपरिष्ठापकः। संस्तारकोपधीनामुपरि स्थितः प्रति; क्रमणं करोति सवासः-प्रावरणः सन् ॥ " न करेइ" गाहा। पथे यतनां प्रासुकोदकान्वेषणरूपम् । 'तलियाणं' ति शक्तोऽप्युपा. नहौ विना गन्तुं तत्परिभोगं करोति । 'सोवाहणो हिंडइ' त्ति यदुक्तं तद्ग्राममध्ये इत्यपौनरुक्त्यम् । 'चरइ' त्ति अनुबद्धवर्षे वर्षाकाले स्वपक्षपरपक्षाऽपमाने साधुप्रचुरे भौतशाक्याद्याकुले वा लाघवहेतौ क्षेत्रे विहरतीत्यर्थः ॥ “संजोयइ" गाहा । क्षीरखण्डादीनां संयोजनां करोति । अतिबहुकं प्रामाणातिरिक्तं भुङ्क्ते । सांगारं सधूमकं रागेण द्वेषेण भुङ्क्ते । अनर्थाय-निष्प्रयोजनं | वेदनौपशमादिकारणानि विना ॥ ३६९ ॥ __अट्ठम छदु च उत्थं, संवच्छर चउमास पक्खेसु । न करेइ सायबहलो, न य विहरइ मासकप्पेणं ॥ ३७०॥
अष्टम-षष्ठ-चतुर्थानि यथाक्रम संवत्सर-चतुर्मासपक्षेषु न करोति सातबहुलत्वान्न च मासकल्पेन विहरति मासकल्पप्रायोग्ययोः क्षेत्रकालयोः सतोरपि । अत्र पाक्षिके चतुर्थस्यावस्थितत्वात्पाक्षिकं चतुर्दश्यामेवावसीयते । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्या
ST||४७१॥ मुपवासस्योभयसंमतत्त्वात्पश्चदश्यां च पाक्षिकत्वेन तस्य सद्भावात्पाक्षिकमपि षष्ठेन स्यात्तथा च 'अटुमच्छटुंछटुमिति' पठ्येत् ।