________________
उपदेशमालाविशेषवृत्ती ॥४६८ ॥
| पार्श्वस्थानां स्वरूपम् भेदाश्च ।
meanconomeRemezRECORCame
ओसन्नस्स गिहिस्स व, जिणपवयणतिव्वभावियमइस्स । कीरइ ज अणवज्ज, दढसम्मत्तस्सऽवत्थासु ॥ ३५२॥ पासत्थोसन्नकुसीलनीयसंसत्तजणमहाच्छंदं। नाऊण तं सुविहिया, सवपयत्तेण वजंति ॥ ३५३ ॥
'अवसन्नस्य'ति शब्दव्युत्पत्त्याश्रयणात्पार्श्वस्थादेरपि ग्रहणम् । 'जं अणवज' ति-यदुचितं तदेव कर्त्तव्यमित्यर्थः ॥ अवस्थासुद्रव्यक्षेत्रकालभावापदादिषु कारणेषु नान्यदा ॥ ३५२ ॥ तदेवाह-" पासत्थो" गाहा । पाचँ ज्ञानादीनां तिष्ठतीति पार्श्वस्थः । पासे नाणाईणं चिट्ठइ तब्भावमल्लियइ नेव । देसेण सव्वओ वा, विराहई एस पासत्थो ॥१॥ आवश्यकादिष्ववसीदति स्म | प्रमादाद्यः सोऽवसन्नः । आवस्सयाइ याई, न करे अहवाऽविहीणमहियाई । गुरुवयणबलाइ तहा, भणिओ एसो उ ओसन्नो ॥२॥ 'बलाइ'त्ति-व्याख्याति-गोणो जहा बलवंतो, भंजइ समिलं तु सो वि एमेव । गुरुवयणं अकरितो, बलाइ कुणई च उस्सोढुं ॥३॥ कुत्सितं शीलमस्येति कुशीलः-कोउयभूई कम्माइएहिं निद्धंधसो सया जो उ । नाणाईणुवजीवइ, एस कुशीलोत्ति निद्दिवो ॥४॥ नित्यमेकत्र वासान्नित्यः परमार्थतोऽयमवसन्न एव विहारादिष्ववस(सी)दनात् , परं नित्यवासस्य बहुतरदोषत्वाद्भिन्नतयोपात्तः ॥ परगुणदोषेषु संगात्संसक्तः-पुरिसेण जारिसेणं, सुद्धमसुद्धेण वा वि संमिलइ । तारिसओ चिय होई, संसत्तो भन्नए तम्हा ॥ ५ ॥ यथाच्छन्दमागमनिरपेक्षतया वर्तत इति यथाछन्दः-उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो। एसो हु अहाछंदो इच्छा छंदोत्ति एगट्ठा ॥६।। उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अणगुवाई । परतत्तिपवत्ते तितिणो य इणमो अहाछंदो ॥७|| सच्छंदमइविगप्पिय, किंची सुहसायविगइपडिबद्धो । (पं. १००००) तिहिं गारवेहिं मज्जइ, तं जाणाही अहाछंदं ॥८॥ विशेषतश्च पार्श्वस्थानां स्वरूपं भेदाच-पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदो विय एए अवंदणिज्जा जिणमयंमि ॥९॥ इत्यादिवन्दनानियुक्तिसमस्तगाथाभ्योऽवसेयानि । एतांश्च ज्ञात्वा सुविहिता सर्वप्रयत्नेन वर्जयन्ति ॥१०॥ यदुक्तमत्रैव-'आलावो संवासो' इत्यादि । उत्सर्गश्चायमपवादेन त्ववश्यकार्यत्वापत्तौ यथोचितमाचरणीयम् । यदत्रैव वक्ष्यति-सुबहुं पासत्थजणं, नाउणं जो न होइ मज्झत्थो । न न साहेइ सकजं,
ccccceaeemaecome
|॥४६८॥