________________
उपदेशमालाविशेषवृत्तौ| ॥४६५ ॥
मस्तस्य गुणान् कति श्रुतपथे यस्यातिभक्तिभृशं, तं श्लाघेमहि यः शृणोति रभसात् स्फीतस्फुटत्कण्टकः । तस्मै नाम नमो नमोऽस्तु पठने कुण्ठोऽपि यस्तत्परः, पर्याप्तं न किमस्य यस्तदुदितं धत्ते विधत्ते तथा ॥२॥ व्यतिरेकमाह-"जो" गाहा ॥ विनयउक्तं च-यो गुरुः सदा तपः संयमोद्युक्तोऽपि स्वाध्यायं न करोति स तं स्वकीयमलसं सातलम्पटं च शिष्यवर्ग साधुपदे संय
10 तपोद्वारम् । मोद्यमस्थाने नैव स्थापयति । स्वाध्यायमन्तरेण ज्ञानाभावात्स्वयमप्रमादिनाऽपि कथं परपरित्राणं कर्तुं शक्यमिति भावः ।। ३४० ॥ गतं स्वाध्यायद्वारमधुना विनयद्वारमूरीकृत्याहविणओ सासणे मूलं, विणोओ संजओ भवे । विणयाओ विष्पमुक्कस्स, कओ धम्मो को तवो ? ॥ ३४१॥ विणो आवहइ सिरिं, लहइ विणीओ जसं च कित्तिं च । न कयाइ दुग्विणीओ, सकज्जसिद्धिं समाणेइ ।। ३४२ ॥
उक्तं च-प्राहुर्दाहकमेव पावकमिव प्रायोऽविनीतं जनं, प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं क्वचित् । तस्मादीहितदानकल्पविटपिन्युल्लासिनिःश्रेयसः, श्रीसम्बन्धविधानधाम्नि विनये यत्नं विदध्याद्बुधः ।। १।। मूलं धर्मदूमस्य छुपतिनरपति श्रीलताकन्दकल्पः, सौन्दर्याह्वानविद्यानिखिलगुणनिधिर्वश्यतायोगचूण । सिद्धाज्ञामन्त्रयन्त्राधिगममणिमहारोहणाद्रिः समस्तानर्थप्रत्यर्थि तन्त्रं त्रिजगति विनयः किं न किं साधु धत्ते ॥ २॥ गतं विनयद्वारमधुना तपोद्वारं तच्च कैश्चिद्दुःखरूपं प्रत्यपादि ततस्तन्निरासायाह
जह जह खमइ सरीर, धुवजोगा जह जहा न हायति । कम्मक्खओ अ विउलो, विवित्तया इंदियदमो अ॥ ३४३ ॥.. ___“जह जह" गाहा । यथा यथा क्षमते शरीरं ध्रुवयोगा नित्यव्यापाराः प्रत्युपेक्षणादयो यथा न हीयते-न सीदन्ति तथैव तपःकार्यमिति वाक्यशेषः। तदुक्तम्-'सो हु तवो कायम्वो' इत्यादि । एवं चास्य कथं दुःखस्वरूपता शमसुखतृप्तानां योगिनां सुखात्मकस्यैव प्रसिद्धेः, क्षायोपशमिकत्वान्मनोबाधाविरहेण विधानाच । क्वचिदिषदेहपीडाभावेऽपि व्याधिचिकित्सादृष्टान्तेन च मनः
॥४६५॥ प्रमोदहेतुत्वात् ।। एवं तपः कुर्वतां कर्मक्षयश्च विपुलो भवति । विविक्तता देहात् पार्थक्यभावनया । इन्द्रियदमश्चाक्षाणां निग्रह इति
CredeoDecemeowne