________________
उपदेशमालाविशेषवृत्तौ
इन्द्रियद्वारम् ।
occeroecococcercene
कथंचित्पुनस्तदीक्षणलोलतया न वीक्षेत, गन्धे रसे स्पर्शे च शुभेऽमूच्छितो गृद्धः सन्नुद्यच्छेत् स्वानुष्ठानोद्यमं कुर्यात् उपलक्षण | चैतद् द्वेषस्य । अशुभशब्दरूपादिषु चाद्विष्ट उद्यच्छेदित्यपि द्रष्टव्यम् ॥ ३२८ ॥ अन्यच्च .
निहयाणि हयाणि य इंदिआणि घाएहऽणं पयत्तेणं । अहियत्थे निहयाई. हियकजे पूयणिज्जाई ।। ३२९ ॥ ___ निहताश्च अनिहताश्च निहतानिहताः । तत्र निहता विषयाऽभिलाषे सत्यपीन्द्रियार्थाऽसम्प्राप्त्या जीवन्मृतमिवात्मानं मन्यमानाः। अन्ये तु तत् सम्प्राप्त्या सुस्थितंमन्या अनिहतास्तेषामुभयेषामपि सम्बोधन हे निहताऽनिहता जीवा ! निजेन्द्रियाणि प्रयत्नेन-प्रकृष्टोत्साहेन घातयत, विषयाभिष्वंगात्प्रवर्त्तमानानां प्रतिरोधाज्जीवन्मृतानि कुरुध्वं 'ण' मिति वाक्यालङ्कारे । यतोऽहितार्थे रागद्वेषोत्पादने निहतान्येव जीवन्मृतीकृतानि, हितकार्य च भगवदागमश्रवण-जिनबिम्बावलोकनादौ लुसाकारनिहतशब्दस्यावर्त्तनादनिहतानि सोत्साहं प्रवर्त्तमानानि तानि पूजनीयानि भवन्ति । तद्वतां पूज्यत्वादिन्द्रियाण्यपि पूजनीयान्युच्यन्ते । अत्र श्रीसिद्धव्याख्यात्राऽन्ये. चत्वारोऽर्था व्याख्यातास्ते च तत एव विशेषार्थिभिरवधार्याः । तथा च निहतानिहतेन्द्रियार्थे सूक्तयः
दिवसरजनीसारैः सारित पक्षगेहं, समयफलकमेतन्मण्डितं भूतधान्याम् । इह हि जयति कश्चिन्मोक्षम:विधेयैरधिगतमपि चान्ये | विप्लुतैहरियन्ति ॥१॥ अनिर्जितेन्द्रियग्रामो, यतो दुःखैः प्रबाध्यते । तस्माज्जयेदिन्द्रियाणि, सर्वदुःखप्रमुक्तये ॥ २॥ न चेन्द्रियाणां विजयः, सर्वथैवाप्रवर्त्तनम् । रागद्वेषविमुक्त्या तु, प्रवृत्तिरपि तज्जयः ॥ ३ ॥ अशक्यो विषयोऽस्प्रष्टुमिन्द्रियः स्वसमीपगः । रागद्वेषौ पुनस्तत्र, मतिमान् परिवर्जयेत् ॥ ४ ॥ हताहतानीन्द्रियाणि, सदा संयमयोगिनाम् । अहतानि हितार्थेषु, हतान्यहितवस्तुषु ॥५॥ जितान्यक्षाणि मोक्षाय, संसारायाऽजितानि तु । तदेतदन्तरं ज्ञात्वा, यद्युक्तं तत्समाचर ॥ ६॥ कोऽपि नास्तीह विषयो, मनोज्ञ इतरोऽपि वा। यदिन्द्रियैर्नोपयुक्तस्तत्स्वास्थ्यं किं न सिध्यते ॥ ७ ॥ शुभा अध्यशुभायन्ते, शुभायन्तेऽशुभा अपि । विषयास्तत्तु रज्येत, विरज्येत क्व चैन्द्रियः ॥ ८॥ स एव रुच्यो द्वेष्यो वा, विषयो यदि हेतुतः । शुभाशुभत्वं भावानां, तन्न तत्त्वेन
DeceDeceDeeperpe
थेवाप्रवर्तन निमामो, यतो दुःख नवं भूतयाव्याम् । इह हिजो
॥ ४६१॥