________________
उपदेशमालाविशेषवृत्तौ
॥ ४४९ ॥
धम्मपि नाम नाऊण, कोस पुरिसा सहति पुरिसाणं ? । सामित्ते साहीणे, को नाम करिज्ज दासत्तं ? ॥ २८८ ॥ एवंविधे च भवे सति — ' सहति ' त्ति अनेकार्थत्वाद्धातूनां प्रतीक्षन्ते पुरुषाणां भवक्षयं कुर्वताम् । यदुत कुर्वन्तु तावदेते वयं पश्चात्तं करिष्यामः । ज्ञाततत्त्वानां न विलम्बितुं युक्तमित्यर्थः । तथाहि - स्वामित्वे स्वाघीने को नाम दासत्वं कुर्यात् ? न कश्चित् । दास्यतुल्यं हि संसारित्वं कर्मपारतन्त्र्यात् । प्रभुत्वसमा तु मुक्तता स्वतन्त्रत्वात् सा च हस्तगतैव सद्धर्मानुष्ठायिनामिति भावः । अथवा धर्म्ममपि ज्ञात्वा किमिति पुरुषाणामाज्ञादानादिकं क्षमन्ते धर्मानुष्ठानात् प्रभुत्वावाप्तेस्तत्रैव वरं यत्नो विधेयः ॥ तथा चोक्तम् – " समसंख्याऽवर्यः सन् पुरुषः पुरुषं किमन्यमभ्येति । पुण्यैरधिकतरश्चेन्ननु सोऽपि करोतु तान्येव " ॥ अत एवाह - ' सामित्तं ' इत्यादि ॥ २८८ ॥ कः पुनः परप्रेष्यतां न सहते ? य आसन्न सिद्धिपथो भवति । कथं ज्ञातव्यमित्याहसंसार चारएचारएव्व आवीलि (पीडि) यस्स बंधेहिं । उन्त्रिग्गो जस्स मणो, सो किर आसन्न सिद्धिपहो || २८९ ॥ आसनकालभूवसिद्धियस्स जीवस्स लक्खणं इणमो । विसयसुहेसु न रज्जह, सन्वत्थामेसु उज्जमइ ॥ २९० ॥ हुज्ज व नव (वि. नवि) देहबलं, धिइमइसत्तेण जड़ न उज्जमसि । अच्छिहिसि चिरं कालं, बलं च कालं च सोअंतो || २९१ ॥ लद्धिल्लियं च बोहिं, अकरितोऽणागयं च पत्थितो । अन्नं दाई बोहिं, लब्भिसि कयरेण मुल्लेण ? ॥ २९२ ॥
चरणं चारः स एव चारकः संसारचारको भवभ्रमणमित्यर्थः । तस्मिंश्चारक इव बन्धनागार इव अपीडितस्य बद्धस्य बन्ध रज्ज्वादिजनितरन्यत्र कर्ममयैः । ' उव्विग्गो' इत्यादि व्यक्तम् ॥ २८९ ॥ ' आसन्न ' गाहा || आसने काले अचिरेण भवा भविष्यन्ती सिद्धिर्यस्य स तथा तस्य सव्वत्थामेसुत्ति ' सर्वस्थानेषु चैत्यवन्दनानुष्ठानादिषु ॥ २९० ॥ ननु साम्प्रतं विशिष्टसंहननरहितैः कथमुद्यम्यत इति यो मन्यते तं प्रत्याह-' होज व ' गाहा । ' बलं च कालं च सोयंतो ' बलं - शारीरम् कालं - दुःषमालक्षणं शोचन् । न हि शोकेन किञ्चित् त्राणं, दैन्यवृद्धिरेव केवलमिति ॥ २९१ ॥ यत्तु जन्मान्तरे पुनर्बांधिलाभे सति शोभन
आसन्नसि
द्विगामिलक्षणम् ।
आ
॥। ४४९ ।।