________________
संघयणकालादिहानिमनालम्ब्य
यतनया वर्तितव्यम् ।
बलकालादिसामग्यमवाप्तौ सदनुष्ठानं करिष्यामो, नाधुना शक्यत इति चिन्तयेत्तं शिक्षयितुमाह-'लद्धिल्लियं ' ति लब्धां-प्राप्तांउपदेशमाला
'बोधि' जिनधर्मप्राप्ति ‘दाई' ति असूयायां निपातः। यद्वा अन्यामिदानी परभवकाले कतरेण मूल्येन लप्स्यसे। इयमत्र विशेषवृत्ती
भावना-बोधिलाभे सति तपःसंयमानुष्ठानपरस्य प्रेत्यवासनावशात् तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते तदनुष्ठानरहितस्य पुनर्वासनाभावात्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः। नन्वेवं सत्यस्य बोधिलाभस्यासंभव एवोपन्यस्तोऽनादौ संसारवासनाभावात् । नैवमनादिसंसारे राधावेधोपमानेनाऽनाभोगत एव कथंचित्कर्मक्षयस्तदवाप्तेः लब्धे तु नितरां यत्नो विधेय इत्यैदम्पर्यमस्येति ॥२९२॥
'वंदइ उभओ कालं पि चेइआई' ॥२३०॥ इत्यतः स्थानादेस्तत् स्थानं यावत्प्रायेण प्राप्तश्रावकत्वस्योपदेशः प्रोक्तः । इत D] ऊर्ध्व प्राप्तव्रतमुपदेक्ष्यति । तत्र ये प्राप्यापि व्रतं सुखशीलाः शठतया तत्र निरुद्यमाः स्युस्तेषां स्वरूप सखेदमाह
संघयणकालबलदूसमारुयालंबणाई चित्तूणं । सव्वं चिय नियमधुरं, निरुज्जमाओ पमुञ्चति ॥ २९३ ॥ कालस्स य परिहाणी, संयमजोगाई नत्थि खित्ताई। जयणाइ वट्टियव्वं, नहु जयणा भंजए अंग ॥ २९४ ॥
कि कुम्मों नास्ति शारीरशक्तिरूपं नः संहननं नायं कालो दुर्भिक्षत्वात् । नास्ति मानसं बलं धृतिरहितत्वात्। दुषमा च वर्त्तते क्लिष्टा चेयमाख्याता भगवता प्रागेव ॥ रोगाक्रान्ता वयमित्याद्यालम्बनान्यलीकावष्टम्भानादाय सर्वोमेव कत्तुं शक्यामपि नियमधुरां संयमभारोद्वहनलक्षणां निरुद्यमाः सन्तः 'ओ' इति निपातः खेदे प्रकर्षण मुश्चति ॥ २९३ ॥ सोद्यमैस्तर्हि किं विधेयमित्याह-“कालस्स य" गाहा । कालस्यावसप्पिणीरूपस्य परिहाणिः-हीयमानता ततः संयमयोग्यानि न सन्ति अधुना क्षेत्राणि । ततो यतनया वर्तितव्यम् । न सर्वथा मुक्तधूर्धारणैर्भाव्य, यतो न यतनासंयमस्याङ्गं-शरीरं कारणं वा भनक्ति । यदुक्तम्-"जयणा हु धम्मजणणी, जयणा धम्मस्स पालणी चेव । तव्वुढिकरी जयणा, एगंतसुहावहा जयणा ॥१॥" जयणाए वट्टमाणो, जीवो सम्मत्तनाणचरणाणं । सद्धा-बोहासेवण-भावेणाराहगो भणिओ ॥२॥ २९४ ।।
CRecorrenderPERKaecom
edeoeKCOpeezerveerenveere
॥४५
॥