________________
उपदेशमालाविशेषवृत्तौ
॥ ४४८ ॥
आजीवं - प्राणधारणं यावत्संक्लेशश्चित्तविबाधा । ' नीयजर्णासदृणाविय ' त्ति प्राकृतलोकाक्रोशनं चेति । 'विग्गोवणया य' त्तिविगोपना - नानारूपा विडम्बना । ' दारिहरुयाहि ' त्ति दारिद्र्यरूपा रुजाः पीडा दारिद्र्यरुजने पुना रोगो रुजा शब्देन प्राह्यो वहबंधरोग इत्यत्र रोगस्योक्तत्वात् ॥ ' दुप्पउत्ताहिं ' ति दुष्प्रयुक्ताभिः प्राकृतदुष्टकर्म्मजनिताभिरित्यर्थः, इदमप्युक्तम् - सामान्यदानद्दातारस्तुच्छकोपादिकिल्बिषाः । लभन्ते मानुषं जन्म, जन्मिनो मध्यमैर्गुणैः ॥ १४ ॥ रौद्रद्रारिद्र्यतस्तत्र, मृतभावातिशायिनः । केचित्कथंचिज्जीवन्ति मानवा मानवर्जिताः ।। १५ ।। केचिन्निष्ठुरकुष्ठेन, सुष्ठु कष्टां दशां गताः । अन्ये ज्वरातिसारादि रोगोरगविषातुराः ॥ १६ ॥ परकर्मकराः केचिन्मलिनाननलोचनाः । दृश्यन्ते क्लेशजलधौ, मग्ना नग्ना अनाहताः || १७ || अन्ये स्कन्धसमारूढप्रौढमारा ढापदः । जीवन्त्यतिजघन्येन कर्म्मणा शर्मणोज्झिताः ॥ १८ ॥ ज्वलज्ज्वलन संपर्क - कर्कशेर्विरहानलेः । केचित्तापितसर्वाङ्गा, ग्लायन्ति गलितोद्यमाः ।। १९ ।। इति ॥ २८४ ॥ देवगतिमाधिकृत्याह -
देवाऽवि देवलोए, दिव्याभरणाणुरंजियसरीरा । जं परिवति तत्तो, तं दुक्खं दारुणं तेसिं ॥ २८५ ॥ तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ । अइवलियं चिय जं नवि, फुट्टइ सयसकरं हिययं ॥ २८६ ॥ ईसा विसायमय कोह-मायालोमेहिं एवमाईहिं । देवाऽवि समभिभूया, तेसिं कत्तो सुहं नाम ? ॥ २८७ ॥ इदमप्युक्तम् — अकामनिर्जरादिभ्यः केचन स्युः सुरा अपि । तत्रापि न सुखख्यातिः, काचिदस्ति सतां मता ॥ २० ॥ वितुद्यमानहृदया, ईर्ष्याशयैर्द्वरुद्धरैः । विषादवढावा (ना)य, पतन्ति बत केचन ॥ २१ ॥ कण्ठलोठितवादित्रा, हठतो कुण्ठतोऽपरे । रङ्गस्थानेव तार्यन्ते, दीर्यमाणाङ्गका इव ||२२|| स्तम्बेरमतुरङ्गादि वाहनाकारधारिणः । दयाबाह्यं च वाह्यन्ते, कोऽपि शृण्यादिघट्टनैः ।। २३ ।। चण्डालाकृतयः केचिचण्डदण्डैर्निपीडिताः । स्वप्नेऽप्यलब्धसंचाराः पुरन्दरसभादिषु ॥ २४ ॥ स्वर्गच्युतिं बिलीनं च, गर्भजम्बाललोल (ढ) नम् । पश्यन्तो यन्न भिद्यन्ते, तद्वतनवः सुराः || २५ || यथेह लवणाम्भोभिः पूरितो लवणोदधिः । शारीरमानसैर्दुःखे - रसंख्येयैस्तथा भवः ॥ २६ ॥ इति ॥ २८७ ॥
देवभवेऽपि दुःखम् ।
॥ ४४८ ॥