________________
उपदेशमालाविशेषवृत्तौ
॥ ४४७ ॥
पञ्चेन्द्रियवधासक्ता, मांसाऽशनकृतादराः । जायन्ते नरके जीवा, बह्वारम्भपरिग्रहाः ||१|| कुम्भीपाकेन पच्यन्ते, पिठुवन्नष्टचेतनाः । तत्र मुञ्जादिवच्चैते, हन्यन्ते लगुडैर्दृढैः ॥ २ ॥ वस्त्रयन्त्रेषु पीड्यन्ते निपीड्यन्ते तिलेक्षुवत् । भ्राष्ट्रभूमीषु भृज्ज्यन्ते, निस्त्राणाश्चनकादिवत् || ३ || दारुवद्दारुणाकारै-छिद्यन्ते च परश्वधैः । भिद्यन्ते प्रासकुन्ताद्यैराखेटक मृगादिवत् ॥ ४ ॥ तप्तं त्रपु च पाप्यन्ते, आच्छोट्यन्ते शिलातले । आकीर्णाकण्टकैस्तीक्ष्णैरारोप्यन्ते च शाल्मलीम् ॥ ५ ॥ काककङ्कशृगालाद्यै-र्भक्ष्यन्तेऽत्यंत निर्द्दयैः । कार्य तरणं रीणा, वैतरण्यां सुराधमैः ॥ ६ ॥ यस्य जीह्वाशतं वक्त्रे, यो जीवेच्छरदां शतम् । सोऽपि वक्तुं क्षमो न स्यादशर्मनरकेषु यद् ।। ७ ।। इति ।। २८० ॥ न चान्यत्रापि संसारसुखमस्तीति तिर्यग्मनुष्यदेवगतिषु तिर्यग्गतिमाश्रित्य तावदाहतिरिया कसंकुसारा-निवायवहबंध मारणसयाई । नऽवि इहयं पार्श्वेता, परत्थ जड़ नियमिया हुंता ॥ २८९ ॥
' जइ नियमिया हुंत ' त्ति-यदि प्राग्भवे धर्म्मकर्म्मप्रवृत्यधर्मकर्मनिवृत्तिरूपनियमवन्तोऽभविष्यन् ॥ अत्राप्युक्तम् — कूटमानतुलावन्तो, मिथ्याभाषणतत्पराः । मायाविनो जना यान्ति तैरिश्वं जन्म निश्चितम् ॥ ८ ॥ यादृशं नरके दुःखं, तिर्यक्ष्वपि च तादृशम् । यतो वाहनदीहाद्या, व्यापदोऽत्र सुदुस्तराः ॥ ९ ॥ कुतृष्णाबाधिता दीनाः, पारवश्यमुपागताः । वहन्ति पशवो भारं पृष्टकण्ठसमर्पितम् ॥ १० ॥ केचिद्दोहनदोषेण, दाहदोषेण केचन । केचिदंकुशघातेन कशाघातेन केचन ॥ ११ ॥ केचिद्वा घनबन्धेन, निरोधेन च केचन । कर्णपुच्छच्छविच्छेद - नाशावेधादिभिस्तथा || १२ || अपारदुःखसंभार - मध्यमग्ना दिवानिशम् । साक्षादेवेह दृश्यन्ते, तिर्यञ्चो वञ्चिताः शुभैः ॥ १३ ॥ इति ॥ २८१ ॥ मनुष्यगतिमाश्रित्याह
आजीवसंकिलेसो, सुक्खं तुच्छं उबद्दवा बहुया । 'नीयजणासिट्टणा वि य, अणिवासो अ माणुस्से ॥ २८२ ॥ चारगानि रोहवहबंध - रोगधणहरण मरणवसणाई । मणसंतावो अजसो, विग्गोचणया य माणुस्से ॥ २८३ ॥ चिंतासंतावेहि य, दारिद्दरूआहिं दुप्पउत्ताहिं । लघूणऽवि माणुस्सं, मरंति केऽवि सुनिन्विष्णा ॥ २८४ ॥
C
तियग्गति दुःखम् ।
॥ ४४७ ॥