________________
उपदेशमाला विशेषवृत्तौ
निमेषमात्र मपि प्रमादो
codecorrecace ecca
सम्यक्त्वस्य प्रमादपरिहारे सत्येव स्यान्नान्यथेत्याह-"जह मूल" गाहा। यथा मूलतानके विशुद्धेऽपि पश्चात्प्रक्षिप्यमाणैर्दूष्टच्छायरागयुक्तवर्णकैर्वानकै र्बीभत्सा पटशोभा भवत्येवं मूले शुद्धमपि लब्धं सम्यक्त्वं प्रमादैः कषायादिभिः पश्चान्मलिनतां यातीति ।।२७३॥
किंच सम्यक्त्वे प्रमादिनो गाढमप्रेक्षापूर्वकारिता स्वल्पेन बहोरेरितत्वात् । सम्यग्दृष्टेहि नियमतो वमानिकायुष्कबन्धहेतुत्वमुक्तमागमे, तच्च तत्र प्रमादिना हारितमेव भवति ॥ यतः
नरएमु सुरवरेसु य, जो बंधइ सागरोवमं इक्कं । पलिओवमाण बंधइ, कोडिसहस्साणि दिवसेण ॥ २७४॥
मिथ्यादृष्टिनरकेषु सम्यग्दृष्टिश्च सुरवरेषु देवलोकेष्वित्यर्थः । यो बध्नाति मध्यमवृत्त्या सागरोपममेकं, तस्य यदि कल्पनया वर्षशतरूपपुरुषायुष्कदिवसर्भागो दीयते तदा दिवसेनाऽसौ पल्योपमानां कोटिसहस्त्राणि त्रीणी न्यूनानि भाग लब्ध्वा निबध्नाति, किल सागरोपमे पल्योपमानां दश कोटीकोट्या भवन्ति, एककादने पञ्चदशभिः शून्यैः । तासां पुरुषायुष्कदिवसैः षट्त्रिंशत्सहर्भागे लब्धं द्वे पल्योपमकोटीनां सहस्र सप्त शतानि सप्तसप्ततिः । पल्योपमानां कोट्यः सप्त सप्ततिर्लक्षाः सप्तसप्ततिः सहस्राणि सप्त शतानि सप्तसप्तत्यधिकानि । छेदांशयोस्समशून्यपाते चतुर्भिरपवते सप्त च नव भागाः पल्योपमस्य स्युः । अङ्कतोऽपि २७७७७७७७७७७४ ॥ २७४ ॥ सम्प्रत्यल्पतरं शुभाशुभबन्धमधिकृत्याहपलिओवमसंखिज्ज, भागं जो बंधई सुरगणेसु । दिवसे दिवसे बंधइ, स वासकोडी असंखिज्जा ॥ २७५ ॥ एस कमो नरएसुवि, बुहेण नाऊण नाम एयपि । धम्मम्मि कह पमाओ, निमेसमितं पि काययो ॥ २७६ ॥ सुराणां गणा येषु ते तथा तेषु स्वर्गेष्वित्यर्थः । असंख्येयवर्षकोट्यात्मकस्य पल्योपमसंख्येयभागस्य पुरुषायुषेण षट्त्रिंशत्सह
'वानकः' इतिपाठः . D प्रतो नास्ति ।
PCCORDERemembeRDarne
॥४४५॥