________________
उपदेशमालाविशेषवृत्तौ
॥ ४४४ ॥
ને
पकरणं मुक्त्वा, परित्यक्तपरिग्रहाः ॥ १३ ॥ मानापमानयोर्लाभालाभयोः सुखदुःखयोः । प्रशंसानिन्दयोर्हर्षशोकयोस्तुल्यवृत्तयः ॥ १४ ॥ कृतकारिताऽनुमतिप्रभेदारम्भवर्जिताः । मोक्षैकतानमनसो, गुरवः स्युः कृतात्मनाम् ॥ १५ ॥ प्राणिप्राणाऽपहरणा, मृषावादपरायणाः। परस्वहरणोद्युक्ताः, प्रकामं कामगर्दभाः ॥ १६ ॥ परिग्रहाऽऽरम्भरता, न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः, कोपनाः कलहप्रियाः ।। १७ ।। कुशास्त्रमात्रपाठेन, सदा पण्डितमानिनः । तत्त्वतो नास्तिकाः पापाः, पाप्मिनां गुरवस्तु ते ||१८|| तथा हि-शिष्यस्यास्ति परिग्रहे गृहमप्याप्नोति नैतद्गुरुस्तुङ्गागारवराग्रहारनगरक्षेत्रेषु तृष्णाच्छिदाम् । शिष्यस्य प्रमदाऽपि नैव बहवः कान्ताः पुनस्तद्गुरोर्द्धिग्मोहस्य विजृम्भितं नटयति स्वैरं यदेवं नरान् ॥ १९ ॥ धर्माधर्मस्वरूपं चेतन-अहिंसालक्षणो धर्मः, सम्यक्त्वादिमादिमान् । देवेन वीतरागेण, दर्शितः कुर्वता स्वयम् ॥ २० ॥ एतस्माद्वैपरीत्येन, मिध्यादृग्भिरुपासितः । अधर्मः प्रोच्यते दूदूतिप्रणयैकभूः ॥ २१ ॥ उक्तं च केनापि - रागी देवो दोसी देवो भा (मा) मिन्नपि देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसा धम्मो । रत्ता मत्ता कंता सत्ता जे गुरु ते वि पुज्जा, हा हा कट्टं नट्ठो लोओ अट्टमहं कुणंतो || २२ || २७१ ॥ तदनया गाथयाऽक्षेपमोक्षसाधकयोर्ज्ञानचारित्रयोः सम्यक्त्वे सत्येव भावात्तस्य प्राधान्यमुक्तं, मोक्षसाधकत्वे तु त्रितयमपि व्याप्रियत इत्याह
सुपरिच्छियसम्मत्तो, नाणेणालोइयत्यसन्भावो । निव्वणचरणाउत्तो, इच्छियमत्थं पसाहेइ ।। २७२ ॥ जह मूलताणए पंडुरम्मि दुव्वणरागवणेहिं । बीभच्छा पडसोहा, इय सम्मत्तं पमाएहिं ॥ २७३ ॥
"
'सुपरिच्छितं ' - सुनिर्मलं सम्यक्त्वं यस्य स तथा ।। ' सुपरिच्छितं ' सुष्ठु परिच्छेदेन दोषेभ्यः समन्ताद्विच्छेदेन स्थापितं
'छो च्छेदने ' इति धातोः सिद्धत्वात् । ' निव्वण ' त्ति निरतिचारतोक्त्ता । ईप्सितमर्थं मोक्षलक्षणं प्रसाधयति । सुनिर्मलत्वं च
१ निरतिचारचारित्रोपेतः ।
सम्यक्त्व
मिथ्यात्व स्वरुपम् ।
॥ ४४४ ॥