________________
उपदेशमालाविशेषवृत्तौ
॥ ४२४॥
वाः स्युर्यतापनमण्डलम् । भोविनीत व नादचे न
DeceDeepeeDecemero
॥ ९०॥ कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शान्तीभवन्ति ज्वलनादयो यत्, तत्सत्यवाचां फलमामनन्ति
परिग्रह ॥ ९१ ॥ चौर्याच्च विरताः श्राद्धाः स्युस्तथाहि-तमभिलषति सिद्धिस्तं वृणीते समृद्धिस्तमभिसरति कीर्त्तिर्मुश्चते तं भवार्त्तिः । स्पृ. 18
IN विरमणम्। हयति सुगतिस्तं नेक्षते दुर्गतिस्तं, परहरति विपत्तं यो न गृह्वात्यदत्तम् ।। ९२ ॥ अदत्तं नादत्ते कृतसुकृतकामः किमपि यः, शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले । विपत्तस्मादूरं ब्रजति रजनीवाम्बरमणेविनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ ९३ ॥ परजनमनःपीडाक्रीडावनं वधभावना, भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गला, नियतमनुपादेयं स्तेयं नृणां हितकाङ्क्षिणाम् ॥ ९४ ॥ परदारविरताश्च श्राद्धाः स्युर्यतः-चक्षुर्दिक्षु क्षिपन्ती क्षपयति झगिति प्रेक्षकाक्षीणि साक्षाल्लीलालोलाऽलसाङ्गो जगति वितनुतेऽङ्गसङ्गाङ्गभङ्गान् । खेदस्वेदप्रभेदान् प्रथयति दवथुस्तम्भसंरम्भगर्भान् , बाला व्यालावलीव भ्रमयति भुवनं चेतसा चिन्तिताऽपि ।। ९५ ॥ नाऽऽसक्त्या सेवनीयास्तत्स्वदारा अप्युपासकैः । आकरः सर्वपापानां, किं पुनः परयोषितः ॥९६।। स्वपति या परित्यज्य, निरपोपयति भजेत् । तस्यां क्षणिकचित्तायां, विश्रम्भः कोऽन्ययोषिति ॥ ९७ ॥ नारी नितम्बजघनस्तनभूरिभारामारोपयन्त्युरसि मूढधियो रताय । संसारवारिनिधिमनिमजनाय, जानन्ति तां नहि शिलां निजकण्ठबद्धाम् ॥ ९८॥ भवोदन्वद्वेलां मदनमृगयुव्याधहरिणी, मदावस्थाहालां विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तोच्चयबहलपक्षान्तरजनों, विपत्खानी नारी परिहरत हे श्राद्धसुधियः ॥ ९९ ।। २४३ ॥ विरया परिग्गहाओ, अपरिमिआओ अणंततण्डाओ। बहुदोससंकुलाओ, नरयगइगमणपंथाओ ॥ २४४ ॥ परिग्रहाच्चापरिमिताद्विरताः श्राद्धाःस्युरनन्ततृष्णारूपमूर्छाविच्छेदात्तथाहि-वित्तं वाञ्छति निर्धनस्तदपि च प्राप्तः समस्तक्षिति,
॥४२४॥ क्षोणीशत्वमवाप्य चामिलषति स्फीतं स सम्राट्पदम् । सम्नाडप्यमराधीशस्य पदवीमित्येवमेषा नृणां, लब्धेऽपि ध्रुवमुत्तरोत्तरपदे तृष्णा | न विश्राम्यति ॥ १०० ।। परिग्रहनिषण्णोऽपि, योऽपवर्ग विमार्गति । लोहोडुपनिविष्टोऽसौ, पारावारं तितीर्षति ॥ १॥ तृष्णाखनि
Depeperpeopeleepepeper