SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला - विशेषवृत्तौ ॥ ४१४ ॥ च्छभावितमतिना शुकेन वृक्षोपरि स्थितेन कथंचनाऽपि दृष्टो सौ । ततः प्रोक्तं तेन – अरे अरे पुलिन्दका ! इह स्थितानामेव भवतां राजा आययौ । तदेनं शीघ्रं गृह्णीध्वम् । ततो राज्ञा चिन्तितम् — यत्र पक्षिणोऽपीदृशाः, स देशो दूरतस्त्याज्य इति मत्त्वा प्रपलायितः प्राप्तस्तापसाश्रमे । तदवलोकनात्पुष्पशुकोऽवादीत् — भो भोस्तापसकुमारकाः ! अतिखिन्नोऽतिथिरागच्छति । चतुराश्रमगुरु - षोऽतः शीघ्रं ददध्वमासनं कुरुताऽऽतिथेयीकृत्यमिति कुमारकान् प्रोत्साहितवान् । सम्पादिते च तैर्भोजनादौ विनोदितखेदो नृपतिगिरिशुकवृत्तान्तं निवेद्य, तस्मै किमेकजातीययोर्भवतोरेतावदन्तरमिति पप्रच्छ । सोऽवोचत् - संसर्गगुणादेतत् तथाहि - माताऽप्येका पिताsध्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ॥ १ ॥ गवाशनानां स गिरः शृणोति, अहं च राजन् मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवताऽपि दृष्टं, ' संसर्गजा दोषगुणा भवन्ति ॥ २ ॥ ततस्तुष्टो राजाऽवोचदस्त्येतत्तथाहिसंतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । व्यक्तं सागरशुक्तिसंपुटगतं सम्पद्यते मौक्तिकं, प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते || ३ || अंबस्स य निंबस्स य, दोन्हंपि समागयाई मूलाई । संसग्गीए विणट्ठो, अंबो नित्तणं पत्तो ॥ इति ॥ ४ ॥ एवं च मत्त्वा दुःशीलसांगत्यं च हित्वा सुशीलैः सहान्येनापि संवासो विधेयः ॥ गाथायां सुविहितेति सुसाधोरामन्त्रणम् । गिरिपुष्पशुकयोः सत्कस्योदाहरणस्य दृष्टान्तस्य कारणं संसर्गादोषोत्प्रेक्षणलक्षणं तद्विधिज्ञः सन् वर्जये: शीलविकलान्, उद्यतशीलश्च स्वयमपि भवेरिति ॥ २२७ ॥ तदेवं कारणाऽभावे पार्श्वस्थादिसंसर्गत्यागोऽभिहितः, कारणे तु तद्वन्दनाद्यपि कार्यमित्याह— ओसन्नचरणकरणं, जइणो वंदेति कारणं पप्प । जे सुविइयपरमत्था, ते वदते निवारंति ॥ २२८ ॥ सुविहिय वंदावतो, नासेई अप्पयं तु सुपहाओ । दुविहपहविष्यमुको, कहमप्प न याणई मूढो ॥ २२९ ॥ संसर्गजा दोषगुणा भवन्ति । ॥ ४१४ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy