________________
उपदेशमालाविशेषवृत्तौ
॥ ४०९ ॥
'शकि च कृत्या' इति कृत्ये वध्यो बाध्यचं । आशापाशपरवशा हि प्राणिनो वधबन्धादिभाजो भवन्तो दृश्यन्त एव । अत एव सर्वसत्पुरुषाणां बाह्या भवन्ति । तथा सन्ध्यारागादिवच्चञ्चले जीवितादौ सति । हे पापजीव ! किमिदं ते मूढत्वं यत्पश्यन्नप्यनित्यतां न बुध्यसे । उक्तं च- प्रवर्द्धमानं पुरुषं प्रथमं प्रसते जरा । ततः कृतान्तस्त्वरते, धिगहो जन्म देहिनाम् ॥ १॥ यथात्मानं विजानीयात्, कृतान्तवशवर्तिनम् । को प्रासमपि गृह्णीयात्, पापकर्मसु का कथा ॥२॥ न गुणेष्वस्य दाक्षिण्यं, द्वेषो दोषेषु चास्ति न । दवाग्विवदरण्यानीं विलुम्पत्यन्तको जनम् ॥ ३ ॥ इदं तु मा स्म शङ्किष्ठाः, कुशास्त्रैरपि मोहितः । कुतोऽप्युपायतः कायो, निरपायो भवेदिति ॥ ४ ॥ ये मेरुदण्डसात्कन्तु, पृथ्वीं वा छत्रसात्क्षमाः । तेऽपि त्रातुं स्वमन्यं वा, न मृत्योः प्रभविष्णवः ॥ ५ ॥ २०८ ॥ अथ कामविडम्बनावैराग्योत्पादनायोपदेशमाह -
जं जं नज्जइ असुई, लज्जिज्जइ कुच्छणिज्जमेयंति । तं तं मग्गइ अंगं, नवरमणंगुत्थ पडिकूलो ॥ २०९ ॥
1
यद्यज्ज्ञाते अशुचीति येन च लज्जते कुत्सितमेतदिति कृत्वा तत्तदङ्गं योषिदवाच्यप्रदेशादि मार्गति केवलमनङ्गेऽत्र तस्यैव तत्प्रार्थन हेतुत्वात्पुरुषात्प्रार्थक्येन कर्तृत्वं प्रतिकूलो गाढविपर्ययरूपत्वात् ॥ उक्तं च- यल्लज्जनीयमतिगोप्यमदर्शनीयं, बीभत्समुल्बणमलाविलपूतिगन्धि । तद्याचतेऽङ्गमिह कामकृमिस्तदेवं, किंवा दुनोति न मनोभववामता सा ॥ अन्यत्राप्युक्तम् — यदेवाङ्गं कुत्सनीयं, गोपनीयं च योषिताम् । तत्रैव हि जनो रज्यन्, केनाऽन्येन विरज्यताम् ॥ १ ॥ सीमन्तिनीनां सीमन्तः पूर्णः सिन्दूररेणुना । पन्थाः सीमन्तकाख्यस्य, नरकस्येति लक्ष्यताम् ॥ २ ॥ भङ्गुरान्नयनापाङ्गानङ्गनानां निरीक्षते । हतबुद्धिर्न तु निजं, भङ्गगुरं जातु जीवितम् ॥ ३ ॥ स्त्रीणां विप्रोषितमतिर्मुखं पश्यत्यनुक्षणम् । क्षणोऽपि हन्त नास्त्यस्य, कृतान्तमुखवीक्षणे ॥ ४ ॥ स्त्रीणां भुजलताबन्धं, बन्धुरं बुध्यते कुधीः । न कर्मबन्धनैर्बद्धमात्मानमनुशोचति ॥ ५ ॥ कुचकुम्भौ समालिङ्ग्ग्य, स्त्रियाः शेते सुखं जडः । विस्मृता नूनमेतस्य कुम्भीपाकोद्भवा व्यथा ॥ ६ ॥ एतदेव गाथाकदम्बकेनाह—
योषिदङ्गकुत्सनीयता ।
11-808 11