________________
उपदेशमालाविशेषवृत्तौ ।
॥३२७॥
कदर्थ्यमानः पुनस्तथा तैस्तु । कस्यापि नाऽपराधः, स्वकर्मफलभोजि भुवनं यत् ॥ ४२ ॥ सर्वः पूर्वकृतानां प्राप्नोति हि कर्मणां फलविपाकम् । अपराधेषु गुणेषु च, निमित्तमात्रं परो भवति ॥४३॥" अथवाऽस्तु पारभविकः, कोऽप्यपराधः कृतो मया नास्य । दुःखानुभवे इहभव इहाकृष्टः, केशैर्न किमेष मयकैव ॥४४॥ इयतैव जीव ! याहि त्वमात्मनः कर्ममर्मणां पारम् । नरकाग्निदाहदुःसहदुः
विवेकिनाखेभ्यो मुच्यसे येन ॥ ४५ ॥ नेतस्तथा व्यथा मे, मनसि यथा कालसेनकारुण्यात् । मन्मृत्युप्रत्ययमेषः दुर्गतो याति नूनमिति
भावना। ॥ ४६ ।। इति भावनाप्रभावप्रभावितप्रौढपुण्यपरिणामः। स निशिततरवारिमहाप्रहारतः प्राप पञ्चत्वम् ॥ ४७ ॥ सर्वार्थसिद्धनाम्नि, सांसारिकसौख्यसीमनि विमाने । उदपादि ततश्च्युत्वा, सेत्स्यति निद्धीतकर्ममलः ॥४८॥ वधबन्धाद्यधिसोढा, सहस्रमल्लोऽयमापदुपमुक्ति । ध्रुवमपरैरप्येवमेव कार्या क्षमा मुनिभिः ॥ ४९ ॥ इति सहस्रमल्लकथा ॥ क्षमामेवाश्रित्याहदुजणमुहकोदंडा, वयणसरा पुव्वकम्मनिम्माया। साहूण ते न लग्गा, खंतीफलयं वहताणं ॥ १३८॥ |) पत्थरेणाही कीवो, पत्थरं डक्कुमिच्छइ । मिगारिओ सरं पप्प, सरुप्पत्ति विमग्गइ ॥ १३९ ॥ तह पुव्वि किं न कयं, न बाहए जेण मे समत्थोऽवि । इहि किं कस्स व कुप्पिमुत्ति धीरा अणुपिच्छा ॥ १४० ॥ अणुराएण जइस्सऽवि, सियायपत्तं पिया घरावेई । तह वि य खंदकुमारो, न बंधुपासेहिं पडिबद्धो ॥ १४१ ॥
दुर्जनमुखमेव कोदण्डा येषां वचनशरणां तेषां ततो निर्गमात् । वचनान्येव शराः परमर्मभेदकारित्वाद्ववचनशराः । “ नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागणवस्य हृदये वृषलक्ष्मणोऽथ, कण्ठेऽधुना वससि वाचि पुनः खलानाम्" ॥ १३८ ॥ अन्यच्चाविवेकिनः क्रोधाऽवकाशो न विवेकिन इति रूपकद्वयेनाह–'पत्थरेण' सिलोगो “ तह पुव्वि" गाहा ॥ श्लोकार्थों गाथार्थोपष्टम्भायोपन्यस्तः । अविवेकी हि केनचित्कदर्थ्यमानः कुक्कुरवत्प्रस्तरे तदपकाराय यतते, विवेकी तु
॥ ३२७॥ मृगारिवन्मूलोत्थानमन्वेषयन्नेवं विभावयति ॥ १३९॥ तथा पूर्वजन्मान्तरे किं न कृतं कुशलकर्म येन हेतुभूतेन बाधते मां, सम