________________
उपदेशमालाविशेषवृत्तौ
॥ ३२५ ॥
शंखावदातचरितः, शंखपुरे कनककेतुनृपतिरभूत् । भटकोटिसंकटस्थानमौलिमाणिक्यमिद्धगुणः || १ || अस्ति स्म वीरसेनाऽभिधानवान् वीरमातृकोङ्कारः । नृपति सिषेवयिषुस्तं स्वगुणान् गुणाधिपत्यार्थी ॥ २ ॥ प्रतिदिवसं पञ्चशतीं, वितीर्यमाणामियेष न स वृत्तिम् । निजनिस्समानविक्रमगुणानुरूपा न भवतीति ॥ ३ ॥ कोऽपि कदाचन कोपादुपाद्रवत्पार्थिवः पुरादीनि । आस्थानस्थस्तत्कनककेतुभूपोऽभ्यधाद्वीरान् ॥ ४ ॥ कः कालसेनमेनं, संयम्य ममोपढोकयेदचिरात् । यावन्न कोऽपि किंचित्, व्याकुरुते तेषु वीरेषु ॥ ५ ॥ तावद्विज्ञपयामास, साहसाद्वीरसेनसुभट इदम् । संपादयामि सद्यो, देवस्यादेशमेनमहम् ॥ ६ ॥ किन्त्वस्य यशः प्रसरस्य, संविभागी न कोऽपि कार्यों मे । निजभुजमात्रो गत्वा, बध्वा च तमानयामि द्राक् ॥ ७ ॥ जोत्कृत्य तस्य पादौ सहायमादाय केवलं स्वमसिम् । असमानसाहसश्रीर्निरगादभिकालसेननृपम् ॥ ८ ॥ अचिरेण कालसेनस्य, सैन्यमासादयाञ्चकारोच्चैः । वदति स्म कनककेतुः, क्रुद्धः क्व स कालसेनोऽस्ति ॥ ९ ॥ ग्रहिलः प्रलपति कोऽप्येष एकको मदवशादवज्ञातः । विशति स्म तदास्थानं, पत्तिप्रतिरुध्यमानोऽपि ॥ १० ॥ रे रे कोऽयं कोऽयं तु, गृह्यतां गृह्यतां कराग्रेण । इति जल्पन्नेव धृतः, स तेन बन्दग्रहेण द्राक् ||११|| क्षुरिकामाकृष्याधो, जगृहे केशेषु तेन दृढमुष्ट्या । भणितो भजस्व केतुं देवं यदि जीवितेच्छा ते || १२ || अहमहमिकया यावत् प्रजिहीर्षन्ते पदातयस्तस्य । तावत्तेन निषिद्धा मा, मत्प्राणान्पणायध्वम् ॥ १३ ॥ द्वित्रिदिनान्ते प्राप्ते, प्रहितं श्रीकनककेतुना सैन्यम् । पश्चादौचित्यविदा, समर्पितस्तेन तस्याऽयम् ॥ १४ ॥ आनीयते स्म तेनापि, बाहुबद्धः स केतुनृपपार्श्वे । नमति स्म विस्मितेनाऽऽशु, मोचितो बन्धनात्तेन ॥ १५ ॥ कथयामास समस्तं वृत्तान्तं वीरसेनसुभटस्य । अनुयुक्तं भूमिभुजा, तत्सैन्यमनन्यसामान्यम् ||१६|| अङ्गीकृतवेलासंविधानकः स्थापितस्तथैवासौ । राज्ये तत्रैव विधाय, सत्कृतिं प्रवरभूषाद्यैः ॥ १७ ॥ तेनापि मांगलिक्यं, सर्वस्वेनाtयकारि भूभर्तुः । भूभर्त्राऽपि प्रहितः, सत्कृत्याऽयं स्वदेशाय ॥ १८ ॥ प्रमुदितचेताः प्रादात्, प्रजेश्वरो वीरसेनसुभटाय । चिन्ताधिकमधिपत्वं, हयकुञ्जरकोशदेशेषु ।। १९ ।। विततार तथा तोषात्, सहस्रमल्लाभिधानमेतस्मै । नयनिष्ठुरमनसा सोऽथ पाति निजराज्यमव्याजम् ॥ २० ॥ नगरोद्यानेऽन्येद्युः, सद्यः प्रापुः सुदर्शनाचार्याः । पदवन्दनाय तेषां सहस्रमल्लोऽपि तत्राऽऽपत् ॥ २१ ॥ दत्त्वा
क्षमायां सह
स्रमल्लाख्यानकम् ।
॥ ३२५ ॥