________________
उपदेशमाला - विशेषवृत्तौ
॥ ३२४ ॥
संलग्गझाणरसो || ३६ || तथा — क्वायातस्त्वं ब्रज बहिरहो नैव सिध्यत्यपीद्द, माऽस्मै भिक्षां वितर दयिते ! देहि वा खण्डमेकम् । गेहे गेहे परुषवचनैर्न्यत्कृतो न्यस्तमानो, भिक्षुर्भिक्षामटति स कृति कर्मनिर्मूलनाय || ३७ ॥ तथा — गोभ्रूणद्विजघात्येष, इति लोकेन जल्पता । विशन् गृहेषु भिक्षार्थ, वेव लोप्रैरकुट्यत ॥ ३८ ॥ ततः - आत्मन् ! यादृक्कृतं कर्म तादृशं फलमाप्नुहि । यादृशमु बीजं, फलं तादृक्षमाप्यते ॥ ३९ ॥ यदमी निरनुक्रोशमाक्रोशान्मयि तन्वते । अयत्नेनैव सिद्धा तन्ममेयं कर्मनिर्जरा ॥ ४० ॥ मय्याक्रोशाः प्रमोदाय, यथेषां मे तथैव हि । यत्प्रीत्या सहमानस्य, कर्मक्षयविधायिनः ॥ ४१ ॥ ग्रंथा- ७००० ॥ यन्मां भर्त्सयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त, दुर्लभः सुखसंगमः ॥ ४२ ॥ अमी मदीयदुः कर्मग्रन्थि परुषभाषितैः । क्षारैरिव चिकित्सन्तो, नितान्तसुहृदो मम ॥ ४३ ॥ कुर्वन्तु ताडनं हन्त, ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो, मलिनत्वमपोहति ॥ ४४ ॥ कर्षन्दुर्गतिगुप्तेर्मां, स्वं प्रक्षिपति तत्र यः । कथं कुप्याम्यहं तस्मै, प्रहारानपि कुर्वते ॥ ४५ ॥ मत्पापानि व्यपोहन्ति, निजपुण्यव्ययेन ये । कथंकारमिवैतेभ्योऽपरः परमबान्धवः ॥ ४६ ॥ वधबन्धादिहर्षाय, यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतुरेषां दुनोति माम् ॥ ४७ ॥ केचित्परेषां तोषाय, त्यजन्त्यर्थान् वपूंष्यपि । एषां प्रीतिदमाक्रोशहननादि कियन्मम ॥ ४८ ॥ इत्यादि भावनां भावयन्-पइदियहं, पइगेहूं परिब्भमंतो वि पावपलयकए। अकयजलमेत्तपाणाऽऽहारो सो जाव छम्मासा ॥ ४९ ॥ सुभावणदावाणलपज्जालियकूरकम्मदारुभरो । उप्पन्नकेवलालोयलोयणो सिवसुहं पत्तो ॥ ५० ॥ अवरेहि वि एवं चैव सव्वसाहूहिं तालणासु । केणावि कएहिं कज्जा, खमा खमेहिं पि पडियारो ॥ ५१ ॥
अहमाहओत्ति न य पडिहणंति सत्ताऽवि न य पडिसवंति । मारिज्जताऽवि जई, सहति साहस्समल्लुव्व ॥ १३७ ॥
अन्यश्च - अधमेराहता इति । नैव प्रतीपं घ्नन्ति, शप्ता अपि नैव प्रतिशपन्ति, किंतु 'मारिज्जंता वीत्यादि ॥ १३७ ॥ सहस्रमल्लाख्यानकं ' त्वेतत्
क्षमायां चढ़प्रहारिकथा ।
॥ ३२४ ॥