________________
उपदेशमालाविशेषवृत्तौ
चेष्टैश्च दुष्टैश्च, रागाद्यैः किमुपासितैः । अयत्नलभ्यां हृद्यां च, श्रय साम्यसुखासिकाम् ॥ ५॥ परोक्षार्थप्रतिक्षेपान् , स्वर्गमोक्षावपनुताम् । साम्यसर्वस्वसंवेद्यं, नास्ति कोऽपि न निहनुते ॥ ६॥ कविप्रलापरूढेऽस्मि-नमृते किं विमुह्यसि । स्वसंवेद्यरसं मूढ !, K
10 साम्यसुखोप
रिश्लोकानि। पिब साम्यरसायनम् ॥७॥ खाद्य लेह्य भूष्यपेय-रसेभ्यो विमुखा अपि । पिबन्ति यतयः स्वरं, साम्यामृतरसं मुहुः ॥ ८॥ कण्ठपीठेलुठन् भोगिभोगो मन्दारदाम च । यस्याप्रीत्यै नवा नो वा, प्रीत्यै स समतापतिः ॥ ९॥ न गूढं किंचनाऽऽचार्य-मृष्टिः | काचिन्न चापरा । बालानां सुधियां चैकं, साम्यं भवरुजौषधम् ॥ १०॥ अतिक्रूरतरं कर्म, शान्तानामपि योगिनाम् । यज्घ्नन्ति साम्यशस्त्रेण, रागारीनां कुलानि च (ते) ॥ ११ ।। अयं प्रभावः परमः, समत्वस्य प्रतीयताम् । यत्पापिनः क्षणेनापि, पदमिर्यति शाश्वतम् ॥ १२ ॥ यस्मिन्सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं नमस्तस्मै, समत्वाय महौजसे ॥ १३ ॥ विगाह्य सर्वशास्त्रार्थमिदमुच्चस्तरां ब्रुवे । इहाऽमुत्र स्वपरयोर्नान्यत्साम्यात्सुखाकरम् ॥ १४ ॥ संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । न तत्कालोचितं साम्यादन्यदौपयिकं परम् ।। १५ ।। रागद्वेषादिशत्रुप्रतिहतिनिपुणां साम्यसाम्राज्यलक्ष्मी, भुक्त्वा भुक्त्वा चिरं तां शुभगतिपदवीं प्राप्नुवन् प्राणभाजः । तेनैतन्मानुषत्वं सपदि सफलतां नेतु कामैनिकाम, साम्ये निःसीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः" ॥ १६ ॥ इति साम्यसुखप्रतिपादकानि श्लोकानि ॥ तदेवं रागद्वेषावधिकृत्योक्तमधुना तत्प्रकृतीरुद्दिश्याहमाणी गुरुपडिणीओ, अणस्थभरिओ अमग्गचारी य । मोहं किलेसनालं, सो खाइ जहेव गोसालो ॥ १३०॥
'मानी'-गर्वितो । 'गुरुप्रत्यनीकः'-आचार्यप्रतिकूलः । 'अनर्थभूतो'-दुःशीलत्वादनेकाऽपायपूरितः । ‘अमार्गचारी'-उत्सू त्रकर्त्तव्यः । एवंविधो यः स्यात् स किं मुधा भवं मौध-निष्प्रयोजनमेव, एव शब्दोऽत्र सम्बन्धनीयः । ‘क्लेशजालं'-शिरस्तुण्ड
॥ ३१८॥ मुण्डनतपश्चरणादिकं खेदवृन्दं खादत्यात्मसात्करोति । तत्साध्यफलाभावात् । दृष्टान्तमाह-यथा 'गोशाल' इति । गोशालकवक्तव्यता च महावीरचरितादवगन्तव्या-जहा, एसो मंखलिपुत्तो वीयवासारत्ताओ आरब्भ सयनेव मुंडाविअ मुडतुंडो होऊणमदुमवासारत्ते
ompeperdeezerveezerveere.