________________
॥ ३९ ॥
वसतिपासे, श्रेष्ठिश्रोजासकस्य दानरुचेः । तदुपष्टम्भादपरच श्राविकाया वसुन्धर्याः । ' श्लोके दोहट्टिपदप्रयोगः दृश्यते ।
श्रीमद्भिः वृत्तिकृद्भिरस्यां वृत्तौ गाथानामर्थः श्रीसिद्धर्षिगणीयवृत्त्यनुसारेण व्यवस्थापितः, कथानाञ्च विस्तरः यथेसं स्थाने स्थाने विहितः, तेन चैतद्वृत्तिप्रणयने बीजभूतस्य वृत्तेरादौ (गा. ५) 'सविशेषकथार्थिनां यत्नः' इति शब्दैर्निर्दिष्टस्य कथारुचिज नानुग्रहस्य चरितार्थता व्यञ्जिता । अतश्चेयं वृत्तिः आन्तरप्रीतिसमुत्पादपूर्वकैतद्ग्रन्थस्वाध्यायादिषु मन्दमतीनामपि प्रवृत्त्यर्थं पदे पदे विविधसुरम्यकथा-दृष्टान्तपरिपूर्णा सुरम्यसुभाषितसन्दोह भ्राजिता स्थाने स्थाने मार्मिकप्रसङ्गानुकूलैः संस्कृत - प्राकृताऽपभ्रंशभाषानिबद्धैः सूक्तरत्नैश्च शोभिताऽतएव साहित्यसुधापानलोलविदग्धचेतसां प्रीत्यास्पदा ।
अस्यां खलु वृत्तौ खण्डद्वयं तत्र च ६००० श्लोकमितः प्रथमः, मूलग्रन्थस्यैकनवतिगाथावृत्तिपर्यन्तो द्वितीयखण्डः ग्रन्थसमाप्तिसमं संपूर्णो भवति, तथा च विषयविभागदृष्ट्या ग्रन्थप्रणेतृनिर्दिष्टं विश्रामचतुष्कमपि दृश्यते, तत्र प्रथमो हि २३९० ( प्रत्यन्तरे २६३६) श्लोकमित: द्वात्रिंशतत्तमगाथाविवरणे पूर्णो भवति । तृतीयो खलु ८९९ श्लो. मितः २२८ गाथावृत्तिपर्यन्ते पूर्णता भजते, चतुर्थविश्रामः प्रन्थेनसह समाप्तिमान् भवति ।
प्रवरज्ञानिधुरन्धरैर्वृत्तिकृद्भिः सकलभव्यजीवानुग्रहबुद्धया मोक्षाध्वनि सुखसञ्चरणायोपयोगिनां कतिचित्पदार्थानामतीव मार्मिकं विशदं च वर्णनमस्ति, यच्चान्यत्र दुरापं दुरवगाहं सुज्ञमतीनाश्च सुप्राह्यं समस्ति तथाहि :
प्रथमगाथावृत्तौ ग्रन्थोपक्रमे ग्रन्थकर्तृ सांसारिकपुत्रश्रीरणसिहराज्ञः प्राकृताऽपभ्रंश - संस्कृतसूक्तरत्नराजिताद्भूतप्रसंगव्यावर्णनमयी सुन्दरा कथा, तत्र भाविकलिकालदुर्वृत्तवर्णनं कलिपुरुषप्रसङ्गोल्लेखसनाथं मुमुक्षूणामतीवोपयोगि । ११ गाथावृत्तौ सूरिगुणपि शिकावर्णनं नानारीत्या षट्त्रिंशत् गुणवर्णनं मनोरमम् । गाथा २८ वृत्तौ सनत्कुमारचक्रिकथा भावविशुद्धिवतामतीवोपयोगिमार्मिक हत्तारविधूनका । एतत्कथागतो छुदन्तोऽन्यत्र कुत्रचिद् दुरापस्तथाप्येतस्याप्रामाणिकत्वशङ्काऽत्र न विधेया । यतः परमकरुणासमुद्राः खलु.
उपक्रमः ।
।। ३९ ।।