________________
॥ ३८ ॥
श्रीश्राद्धविधिविनिश्चयाख्यप्रकरणे (चाणस्मासत्कामुद्रितहस्तप्रति ) पर्वदिनं विनाऽपि पौषधग्रहणवार्तासमर्थनेxxx 'एवं दोघट्टी - उपदेशमालावृत्तावपिxxx' इत्यादिशब्दे प्रस्तुतवृत्त्युल्लेखोऽस्ति । तथा चाग्रेऽपि (१६-१७ पत्रे) विस्तृतो हि शब्दशः उल्लेखः ' xxxश्रीरत्नप्रभसूरिविरचित दोघट्टी - उपदेश मालावृत्तिगतश्चतुर्दशी - पाक्षिकविधिः xxx इत्यादिप्रकारेण उल्लेखः समुपलभ्यते । एवंविधनैकविद्वदभिगताSSAत्वभ्राजितैरिमै रत्नप्रभाचार्यैरन्यदपि विद्वदधिगमनीयं बालसुलभञ्च विविधं साहित्यं निर्मितमिति : प्राच्यहस्त लिखित प्रतिसङ्ग्रह वर्णन पुस्तकोल्लेखैः प्रतीयते, तथाहि :- मतपरीक्षापञ्चाशती, श्रीनेमिनाथचरित्र प्राकृतं गद्यपद्यमयं ( प्रन्था० १२६००, ) श्रीकुवलयमाला ग्रं० ३८९४ (संस्कृत) (बृ. टि.) श्रीपृथ्वीचंद्र चरित्रसङ्केतः (विषमपदपर्यायरूपः) (जै. ग्रं.) श्रीपार्श्वचरित्र सम्बद्धशदृष्टान्तकथा (मं ९५७) अन्तरङ्गसन्धिः (गा. २०६ ) । एतेन प्रस्तुतवृत्तिकर्तुः विविधभाषासु नानाविधलोकोपयोगिसाहित्यनिर्माणदक्षत्वं सुस्पष्टं प्रतीयते ।
तथा चातीवकर्कशतर्कशास्त्रचण-स्वगुरुवर्य विरचितश्रीस्याद्वादरत्नाकरग्रन्थावगाहनपद्धतिरूपां विशिष्टच्छटाबद्धशब्दसौष्ठवशब्दानुप्रासादिविविधालङ्कारप्रमुख साहित्यतत्त्व विभ्राजितां विशिष्टतरातिगहनप्रमाणप्रमेयदुर्घटवार्ता परिपूणीं श्रीरत्नाकरावतारिकां विरच्य श्रीमद्भिः सर्वतोमुखिस्वप्रतिभाया हृद्यप्रामाणिकपद्धतिः सद्घोषितास्ति । एवंविधसार्वजनीनविद्वत्ताऽञ्चितैरिमः सूरिवरैः निरन्तरं स्वाध्यायपाठादिना प्राणिमात्रहितकारिण्याः श्रीउपदेशमालायाः विविधव्याख्यासाहित्ये सत्यपि गुरूपासनालभ्यमार्मिकार्थविशेषस्य गाथासु निर्दिष्टानां तत्तन्महापुरुषाणां सुभगजीवनचरित्राणाञ्च सुगमतयाधिगत्यर्थं प्रस्तुतवृत्तिप्रणयनं परमहितेप्त्वेनाकारि, “श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः । शिष्यैः सेयमकारि सम्मदकृते वृत्तिर्विशेषार्थिनाम् || ” ( प्रस्तुतग्रन्थीयप्रशस्तौ) 'वृत्तिविशेषार्थिना' मितिपदेनैवास्या वृत्तेः विशेषवृत्तिरित्यभिधानं ग्रन्थकृदभिमतं प्रतीयते । लोकव्यवहारे विद्वत्समाजे च बहुशोऽस्या दोघट्टीति संज्ञया व्यवहारः । तत्र तु बीजभूतामेवंरूपां किंवदन्तीमामनन्ति वृद्धा: -- यत् एतद्वृत्तिरचना भृगुकच्छीयस्य कस्यचिच्छ्राद्धस्य हट्टद्वयसूचक - दोहट्टि ( द्विट्ट ) संज्ञवसतौ श्रीरत्नप्रभाचार्यैरकारि, अतस्तदुपज्ञमेतद्वृत्तेर्दो घट्टोति नामेति । श्रीजीवानुशासनप्रकरणप्रान्तभागेऽपि 'दोहट्टि
उपक्रमः ।
॥ ३८ ॥