________________
॥ ३६ ॥
एते हि सूरिवर्याः प्रोज्वलसंयमदीप्तिप्रकर्षानुग्रहशक्तिसम्पन्नाः सन्तः सूरिपदप्राप्तेरूर्ध्वमपि नैकान् दर्शनान्तरीयान् दिग्गजधुरन्धरविद्वन्मत कानपि निराबाधप्रसरवत्या नैकतत्वानुगामि नयनातविशदावबोधनिस्यन्दतुल्याने कान्तवादाप्रतिहतसामर्थ्यवत्या प्रतिभया विजित्य जिनशासनोद्भाजनमतुलमकार्षुः । तथा च सिद्धराजसंसदि सिद्धान्तप्रतिमूर्त्ति श्रीचन्द्रसूरि - दिव्यशक्तिनिधान - श्रीयशोभद्रसूरि - श्रीहेमचन्द्राचार्यप्रमुखनैकविद्वद्गुणनिश्रायां जायमाने श्रीश्रीपाल कविमुख्यसञ्चालनवति श्रीकुमुदचन्द्राख्यदिगम्बरवादिचक्रवर्ति समुपज्ञे सर्ववादमूर्द्धन्ये शास्त्रार्थे च स्वप्रगुरूत्तमवादिवेतालश्रीशान्तिसूरिवर्यप्रणीतोत्तराध्ययनवृत्तिगत-चतुरशीतिजल्पाद्याधारेण विजयं सम्प्राप्य जिनशासनं
स्वान्तरशक्तिसमुल्लासकमतीवप्रोद्भासयामासुः, महामतिप्रथिततत्त्वावगाहनोपयोगिप्रमाणनयसप्तभङ्गादिपटुतरपदार्थनिरूपणप्रत्यल-श्रीप्रमाणनयतत्वालोकालङ्कारमहाग्रन्थं विशदनैकतत्वज्ञान पदार्थसङ्गकुलचतुरशीतिसहस्रश्लोकप्रमितरत्नाकरावताराख्यमहावृत्तिविभूषितं विनिर्माय सत्तार्किकविद्वच्छ्रेणौ चूलायमानत्वं प्राचीकटन् सूरिवर्याः । विशेषचरित्र जिज्ञासुभिः प्रबन्धचिन्तामणि- प्रभावकचरित्रादिग्रन्थाः विलोकनीयाः ।
श्रीमतां वादिदेवसूरिणां शिष्या ह्यनेका अभूवन् परं तेषु मुख्यत्वेन 'जैनसाहित्यनो इतिहास' इतिगूर्जरपुस्तके निर्दिष्टाः तत्वरत्नाकरायमाणे श्रीस्याद्वादरत्नाकरे 'किं दुष्करं भवतु तत्र, इति श्लोकेन च यदुपग्रहवात्तटङ्किता, ते हि विद्याधुरन्धराः 'श्रीभद्रेश्वरसूरयः,' प्रस्तुतोपदेशमालाविशेषवृत्तिकर्तारम्ध पूज्यतमाः 'श्रीरत्नप्रभसूरया' विशेषेण प्रथिताः सन्ति । एतेषु श्रीभद्रेश्वरसूरीणां वादिदेवसूरिपट्टधरत्वं प्रस्तुत दोघट्टी संज्ञवृत्तिप्रशस्तिगतेन ' तत्पट्टप्रभवोऽभवन्नथ गुणप्रामाभिरामोदयाः, श्रीभद्रेश्वरसूरयः xxxलोकेन ध्वन्यते, समर्थ्यते च प्रभावकचरितान्तर्गत-श्रीवादिदेवसूरिचरितगतेन (लो. २८३ - २८४) सं. १२२६ वर्षे भद्रेश्वरसूरिभ्यो गच्छभारं समर्प्य देवसूरीन्द्राणां स्वर्गगमनोल्लेखेन ।
ॐ यद्यपि श्रीमेरुतुङ्गाचार्यप्रणीतप्रबन्धचिन्तामणिगत - श्रीसिद्धराजप्रबन्धे (पृ. ३७ ) *** अथ देवसूरिप्रभोः रत्नप्रभाभिधानः प्रथमशिष्यः*** इत्यादिपङ्क्तिदर्शनेन रत्नप्रभाख्यस्य विनेयस्य प्रथमशिष्यत्वं ध्वन्यते ।
उपक्रमः ।
॥ ३६ ॥