________________
उपदेशमाला - विशेषवृत्तौ
॥ २६६ ॥
तथा कथाप्रोक्तप्रकारेण त्यज्यत इत्याश्वर्यमेतत्, महर्षिता चास्य भोगाभिलाषात् प्रतिपन्नप्रत्रज्यस्यौपचारिकी । कृतकायोत्सर्गव्याघ्रीभक्षितसुकोशलादिमहर्षिभिः सादृश्यात् ॥ ८८ ॥ यद्वा यदाध्वर्यमुक्तं तन्न, यतः -
उच्छूढ सरीरघरा, अन्नो जीवो सरीरमन्नंति । धम्मस्स कारणे सुविहियासरीरंपि छति ॥ ८९ ॥ एकदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो । जइवि न पावइ मुक्खं, अवस्स वैमाणिओ होइ ॥ ९० ॥ सीसावेण सिरम्मि वेढिए निग्गयाणि अच्छीणि । मेयज्जस्स भगवओ, न य सो मणसा वि परिकुविओ ॥ ९१ ॥
"C
उच्छुढ " गाहा । स्पष्टा । नवर 'मुच्छुढसरीरघरा' - त्यक्तदेह गेहाः ||८९|| ननु कथमयमवन्तिसुकुमालस्तावता क्षणेन तद्विमानमासादितवानित्यत आह - " एगदिवसंपि " गाहा व्यक्ता । अपिशब्दान्मुहूर्त्तादिकमपि । अनन्यमनस्कतया चात्र प्रवर्द्धमान धर्मंध्यानप्रधानता प्रोच्यते, तस्यैव शुभोपार्जनायां प्रधानहेतुत्वात् ॥ ९० ॥
यतः - " यां पूर्वकोटिघटितैरपि नाप्नुवन्ति, मुक्ति बहिर्मुखतया यतयस्तपोभिः । धर्मैकतानमनसो जनपक्तिमुक्तास्तां तद्दिनव्रतभृतोऽपि भजन्ति धन्याः || ” तथा - " तवतविया जवजविया, जोगे जोगविय पुव्वकोडि पि ।
जं साहयंति सिज्झइ, झाणेण खणेण सा सिद्धी ॥
अवन्तिसुकुमालप्रस्तावात् यत्यन्तरस्यापि दुष्करोद्धोंसकारिचरितमाह – “ सीसा वेढेण ” गाहा । शीर्षस्योत्तमाङ्गस्य आम न्ताद्वेष्टनमार्द्रवर्भादिना परिक्षेपेण बन्धस्तेन, शेषं सुगमम् ॥ ९१ ॥ भावार्थः कथानकादवसे यस्तच्चेदम्
एकदिवसप्रव्रज्याफलम् ।
॥ २६६ ॥