________________
उपदेशमालाविशेषवृत्तौ
॥ २५४ ॥
चेत्यर्थः । अवितथं न तु शुक्तिकादौ रजतादिज्ञानवद्विपर्ययाक्रान्तम् । असन्दिग्धं च न पुनः स्थाणुर्वा पुरुषो वेत्यादिज्ञानमिव सन्देहास्पदमित्यर्थः ॥ यो हि - " सव्वे पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमेत्तं परो होइ " ॥ १ ॥ इत्यादि जिनवचनभावितमतिस्तस्य का नाम क्वाप्यक्षमा, ननु “ जइ ता तिलोयनाहो ” इत्यादिना क्षमोपदेशः प्राक् प्रोक्तः एव तत्किं पुनरुक्तेनानेन ? उच्यते-पौनरुक्त्येतन्न दोषाय, मुहुस्तच्छ्रवणे मुहुः क्रोधाद्युपशान्तिविशेषलाभात् भण्यते चयद्वद्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् । सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणासु य, न हुंति पुणरुत्तदोसाओ ॥ एतदेवान्यत्रापि पुनरुक्तोपदेशे वाच्यम् । जिनवचनविधिज्ञाश्च साधवो न बालतपस्विन इव षड्जीवनिकायवधका नापि हिंसाशास्त्रोपदेशका स्युरिति तेषां तपोमहाफलमेव भवतीति प्रस्तुतेनाऽपि सम्बन्धो दृश्यः ॥ ८३ ॥ मोहोपहतबुद्धयः पुनस्तानेव बालतपस्विनः समीचीनान् मन्यन्ते तत्रेदं कारणाम् - " जो जस्स " गाहा स्पष्टा । हृदि वर्त्तते - चित्ते लगतीत्यर्थः । व्याघ्री जननी स्वकीयं शावं - बालकं भद्रं कल्याणसौख्यवन्तं मन्यते जन्तूनां तयोः कारणत्वात् । सौम्यं च क्रोधाद्युपशमेन शान्तलेश्यमित्यर्थः । अथ तस्यैवमवायै शौर्यमुद्गीर्यते ॥ ८४ ॥
सारङ्ग संवृणु तृणाङ्कुरखण्डनानि, सिंहीशिशोरिह विहारवनस्थलीषु ।
यस्य व्यनक्ति करजव्यवसायलक्ष्मी मुक्ताफलप्रकरदन्तुरिता धरित्री ॥ ग्रं. ५४९० ।।
॥ इतिश्रीरत्नप्रभसूरिविरचितायामुपदेशमालाविशेषवृत्तौ द्वितीयो विश्रामः ॥
बालतपस्वि नोऽल्पफलम् |
।। २५४ ।।