________________
॥ ३३ ॥
सर्व वृत्तिप्रान्तभागे प्रशस्तितोऽवगम्यते । वृत्तिप्रणेतारो हि रत्नप्रभाचार्याः परमोत्कृष्ट संयमाराधनापरायण - शासनप्रभावक सकलशास्त्रपारावारपारीण - श्रीमुनिचन्द्रसूरिपट्टप्रभावक - प्रखरतपस्वि - वादकलानिपुणाऽऽशाम्बरीय दिग्गजवादिमदोन्माथि - पूज्याचायश्रीदेवसूरिप्रभुपट्टावतंसभूताः सन्ति । अतः प्रथमं श्रीमुनिचन्द्रसूरीणां ततश्च वादिदेवसूरीणामैतिह्यज्ञानमावश्यकम् ।
प्रभोर्महावीरदेव भगवतः पट्टपरम्परायां श्रीसर्वदेवसूरि (द्वितीय) पट्टे एकोनचत्वारिंशत्तम पट्टधररूपेण श्रोयशोभद्रसूरि - श्रीनेमिचन्द्रसूरिसंज्ञितौ गुरुभ्रातरौ सूविर्यौ सञ्जातौ । वीरगणिरचिताया ७६७१ श्लोकप्रमाणपिण्डनिर्युक्तिवृत्तेरसंशोधनकारिभिः श्रीनेमिचन्द्रसूरिभिः स्व गुरुवर्य प्रदत्तसूरिपदाचित गुरुभ्रात्राष्टकत श्रीविनय चन्द्रोपाध्यायशिष्यश्री मुनिचन्द्रसूरिभ्यो गच्छभारं योग्यतानुरूपं ददुः, चत्वारिंशत्तम पट्टधररूपेण तेषां प्रथितिश्च कृता । यत उक्तं :
'गुरुबन्धुविनयचन्द्राध्यापक शिष्यं स (!) नेमिचन्द्रगुरुं । यं गणनाथमकार्षीत् स जयति मुनिचन्द्रसूरिरिति । उपा० धर्मसागर० पट्टावली । '
एवञ्च सुगृहितनामधेया हि पूज्यवर्याः श्रीमन्तः मुनिचन्द्रसूरिवराः चत्वारिंशत्तमाः पट्टधराः इति निर्णीतम् । इमे हि सूरिवराः बालदीक्षिताः अकुण्ठब्रह्मचारिणः सत्तर्ककर्कशप्रमाणशास्त्रवादतत्वादिदुर्बोधपदार्थसार्थमर्मस्पर्शिज्ञातार अत्युत्कट विशुद्धसंयमपालनपराश्वसन् । एतैः सूविर्यैः भवावटपातप्रत्यलाः दुरवगाढभवसमुद्रमीषणावर्त्तसमा षडपि विकृतयः मोहोत्पादविकारोत्पत्तिप्रभूष्णव इति सम्यगवबुध्याजीवनं षण्णामपि विकृतीनां सर्वथा परित्यागः कृत आसीत्ः । रसास्वादवृत्तिनिग्रहाय च सौवीरापरपर्यायभूतां काञ्जिकामेव शरीरयापनाय जगृहु:, अतश्चेतेषां 'सौवीरपायी' तिशरीरनिरीहताप्रकृष्टत्यागितासूचकमर्थानुगुणं नाम विद्वत्समाजोपज्ञमागोपाङ्गनं प्रथितं जातं तथाहि :
'सौवीरपायी तितदेकवारि - पानाद्विधिज्ञो बिरुदं बभार । जिनागमाम्भोनिधिधौतबुद्धिर्यः शुद्धचारित्रिषु लब्धरेखः । संज्ञिमौलिर्वकृति सर्वास्तत्याज देहेऽप्यममः सदा यः । विद्वद्विनेयाभिवृतः प्रभाव-प्रभागुणौघैः किल गौतमो यः ।। तपा० पट्टा० ।
उपक्रमः ।
॥ ३३ ॥