________________
॥ ३२ ॥
यन्तः स्वलघुतां व्यञ्जमानाः सन्तः पुनः गाथाद्वयानन्तरमेव स्वनामसङ्कलनं स्पष्टशब्दैः कुर्युः, नैतदाश्चर्यकरं किमिति १ अत एतां गाथां पावात्येन केनापि प्रक्षिप्तामभिमन्यान्तिमाशीःरूपा 'संतिकरी० ५४०' तमा यदि स्वीक्रियते तर्हि सर्व सुस्थं भवेत् एवञ्च तदनन्तरीयायां ‘इत्थं समप्पइ० ' गाथायां गाथाप्रमाणसुचनमपि सङ्गतं भवेत्, अन्यथैतद्गाथापूर्ववत्यैकचत्वारिंशदधिकपञ्चाशतगाथासत्त्वादेकाधिकत्वं कथमपनुयेत १ । अतः ' इयं धम्मदास० ' गाथां प्रक्षिप्तामभिमन्य ग्रन्थकृदभिमत५४० गाथाप्रमाणसङ्गतिरुचिता प्रतिभाति । एव प्राकू निर्दिष्टानां ५४० गाथाप्रमाणोल्लेखवतीनां प्रतीनां प्रामाण्यं ग्रन्थकृन्निर्देशमात्रमपेक्ष्यावशिष्टगाथानाश्च चूलिकारूपेणागणनरूपविवक्षया च भवेत् । 'संतिकरी बुढिकरी ० ' गाथामप्रक्षिप्तां स्वीकृत्य ग्रन्थकृन्निर्दिष्टगाथाप्रमाणसूचिकां गाथामेव चरमां गाथां विवक्ष्य ५४२ गाथोल्लेखोsपि प्रामाणिकतर एव दृश्यते । तथोपदेशप्रधानत्वादेतस्य ग्रन्थस्य मध्यवर्तिगा - थास्तु कासुचित् न्यूनाधिक्यसम्भवात्तन्मूलको हि ५४३ गाथोल्लेख इत्यनुमीयेत, तर्हि वरं ! यतः ५४३ गाथावतीषु चरमगाथापञ्चकन्तु एवमेवोपलभ्यते । ५४५ गाथासङ्गतिरपि पूर्ववदुपदेशप्रधानत्वादस्याः कस्याश्चिद् गाथायामेकतमप्रक्षिप्यमाणत्वसम्भवं विवक्ष्य करणीया । निष्कर्षो हि खलु एवमत्र बोद्धव्यो यत् ५४४ गाथाप्रमाणे गाथाया प्रक्षिप्तत्वेन न्यूनाधिक्यं वा नहि कल्पनीयं भवति, अनेकत्र च बहुप्रतिषु एतावद्गाथाप्रमाणस्योपलभ्यमानत्वादस्या उपदेशमालाया ५४४ गाथाप्रमाणं सुनिश्चिततरं सुसङ्गतं प्रामाणिकचेति सुनिश्चीयते ।
अथ परमप्रामाणिक पदेशिकग्रन्थचूडामणिभूताया अस्या उपदेशमालाया माझ निर्दिष्टसाहित्यसूच्यां विवरणशैलितः सर्वव्याख्यासु प्रष्ठभावं विभ्रत्याः दोघट्टीसंज्ञवृत्तेर्कर्त्तृत्वादिविचारः प्रस्तूयते ।
विद्वद्वर्गे दोघट्टसंज्ञया प्रसिद्धेयं हि वृत्तिः श्रोवादिदेवसूरिशिष्यावतंसैः श्रीरत्नप्रभसूरिवरैः व्याख्यातृचूडामणि - श्रीसिद्धषिकृत हेयोपादेया वृत्त्यनुसारेण गाथार्थपद्धति संस्थाप्य विशेषवृत्तीत्यभिख्यया वि. सं. १२३८ वर्षीयमाघमासे भृगुपुरे निर्मितत्येतत्
उपक्रमः ।
॥ ३२ ॥