________________
॥ ३१ ॥
चतुष्कं । नीतिवि० संग्रहे (वे. ११७. प्र. ५९३-९४) प्रतिद्वयं स्तम्भतीर्थे शान्ति० (वे. ११) एका प्रतिः, तथा १०२-३-२८-२९३० सख्यमञ्जूषकेषु पञ्चदशप्रतिषु प्राय: बाहुल्येन ५४४ गाथाः । जैन ग्रन्थावली (पृ. १७१ निर्दिष्टा ) मध्ये एका प्रतिः । लींबडीस्थकोशे ६४९ - ७४८-८६८ - ११०२ - २८-२९-१४२४-१५३८-१६०७ - १७१७-३४२४ संख्या प्रतयः ५४४ गाथाप्रामाण्यभाजः सन्ति । पूज्यवर्यागमोद्धारक - सम्पादितमूलमात्र उप० - श्रुतज्ञानअमीधारयोश्च ५४४ गाथाः । लींबडी० (मं. १३०३ ) चाणस्माउमेद० संग्रहे (वे. ६. प्र. ५) च ५४५ गाथाप्रमितोपदेशमाला दृश्यते । एवञ्चाधुनिकसाहित्यसृष्टौ उपदेशमालागाथावैविध्यमुपलभ्यते । तथाहि : – खंभात - शां० ता० भं. लींबडी, जैन - साहित्य - इतिहासादिषु ५४० गाथा । जिनरत्नकोश-खं. शां. ता. भं. लींबडी भण्डारद्वय, - जैन ग्रंथावल्यादिषु ५४२ । लीं. चाणस्मा. नीति० संग्रहयो: ५४३ । चाणस्मा उमेदवि० ४, नितिवि० २, खंभात शा० ६, जै. ग्रं. १, लीं. भं. ११, पू. आगमोद्धारक - प्रकाशितमूलप्रतिः १, श्रुतज्ञानअमीधारा १, ५४४ । लीं. उमेदवि. सं १ ५४५ गाथाः । परमेतत्र ५४४ गाथाप्रमाणं प्रामाणिकतरं दृश्यते, बहुश उपलभ्यमानत्वात्सुविहितगीतार्थाचरितमर्यादाङ्कितत्वात् युक्तिसंगतत्वाश्च्च, तथाहि :- “ इय धम्मदासगणिणा, जिणवयणुवएसकज्जमालाए । मालव्व विविधकुसुमा, कहिआ य सुसीसवग्गस्स ॥ ५४० ॥ संतिकरी वृद्धिढकरी०, ५४१ । इत्थ समप्पइ इणमो० ५४२ । जाव य लवणसमुद्दो० ५४३ || अक्ख रमत्ताहीणं जं चिय पढियं अयाणमाणेणं । तं खमह मज्झ सव्वं जिणवयणविणिग्गया वाणी ॥ ५४४ || ” एतस्मिन् उ० गाथाप्रचके वस्तुतः सापेक्षभावेण विचार्यमाणे विवक्षावशादल्पाधिक्यसंभवो जाघटीति, यत: - प्रन्थकृद्भिरुपदेशरूपविषयसमाप्तिस्तु त्रयस्त्रिंशदधिक-पंचशततमगाथयैव कृताऽस्ति ततः परं गाथाद्वयेन प्रस्तुतप्रकरणस्य सारमयता सूचिता, ततश्चैकगाथया प्रन्थोपसंहाररूपेण प्रकरणज्ञानसफलता वर्णिता, तदनन्तरीय ५३७ गाथायाञ्च ग्रन्थकृद्भिर्निगूढाक्षरपद्धत्या स्वाभिधेयसंसूचा विहिता, जिनवचनमहत्त्वं कल्पवृक्षौपम्येन निदश्यैतत्प्रकरणाधिकारिणः सूचिताः । तदनन्तर ५४० तम गाथाया पुनः प्रन्थकद्भिः स्वाभिषेयं व्याकुर्वदुद्भिरुपसंहारः कृतः । अत्र चैवं वितर्येत यदि तर्हि नासङ्गतं यत् : - प्रन्थकृतः स्वाभिधेयं ५३७ तम गाथया गुप्तरीत्या वर्ण
उपक्रमः ।
॥ ३१ ॥