________________
॥ ३० ॥
CAMA
क्षराणि समुपलभ्यन्ते । ८ श्रीउमेदवि. कोशे. चाणस्मा. वे. ६ प्र. १० सं. १४९९ वर्षे द्वि. आषाढ व ११ सोमे लिखिता ७० पत्रात्मिका उपदेशमाला - बालावबोधप्रतिः । तत्र च द्वितीयगाथा बालावबोधे - ' xxxश्री आदिनाथ आगई प्रन्थकारनुं दूरइ हुऊ, xxx अनई श्रीमहावीर तेणई कालई ढुंकडा जयवंता वर्त्तईxxx' इत्यक्षराणि । प्रान्त्यभागे च स्पष्टतरमुल्लिखितम् यत् : - ' xxxश्रीधर्मदासगणना वचनमाहि दोष सर्वथा नहीं, पूर्वगुरुआ बहुश्रुतभणी ए श्रीउपदेशमाला श्रीमहावीर जीवतां निपनी, तेह भणी श्रीसिद्धान्तप्राय जाणिवीxxx' इत्येतैः एतादृशैर्वा प्रामाणान्तरैर्नितान्तमेतद्द्दढीक्रियते यदियमुपदेशमाला श्रीमहावीरपरमात्महस्तदीक्षितेन धर्मदासगणिना भाविभव्यसत्त्वोद्दिधीर्षयाऽतिशयज्ञानबलोपबृंहिता विरचितेति, नात्र कञ्चन शङ्कालेशविसरः ।
। गाथासङ्ख्या विचारः ।
यद्यपि उपदेशमालागाथाप्रमाणं ग्रन्थकृद्भिरेव ' इत्थ समप्पइ० ' (५४२) गाथायां 'गाहाणं सव्वाणं पंचसया चैव चालीसा' पदैः चत्वारिंशदधिकपञ्चशतमितं निर्दिष्टम्, तथापि साम्प्रतीनासूपलभ्यमानासु प्रति पुस्तकेषु द्वयोश्चतुणीं पंचानां च गाथानामाधिक्यं दृश्यते । तथाहि :- स्तम्भतीर्थीय - श्रीशान्तिनाथताडपत्री - कोशे (वे. ७) लोंबडीभाण्डागार (मं. १७०२) स्थितप्रत्योः ५४० प्रमाणं दृश्यते । मोहनलाल दलीचंद देसाई संज्ञाधुनिकैतिह्यविदुषाऽतिप्रयत्नसङ्कलिते 'जैन साहित्यनो संक्षिप्त इतिहास' संज्ञग्रन्थ (पृ. २३-३१) उपदेशमालाविवरणप्रसङ्गे ५४० गाथा निर्दिष्टाः । परमेष सामान्यतः ५४२ गाथास्थप्रन्थप्रमाणस्यानुवादशैल्या निर्दिष्टः प्रतीयते, न स्वतन्त्राभिप्रायो उपलक्ष्यते । तथा जिनरत्नकोशे (पृ. ४९) ५४२ गाथाप्रमाणोल्लेखः । स्तंभतीर्थशान्ति कोशेऽपि ५४२, जैन कॉन्फरन्सप्रकाशितग्रन्थावली ( पृ. १०२) लोंबडी (मं. १५८७) ५४२ गाथाप्रमाणोपलभ्यते । लींबडीस्थकोशे ५४३ गाथामिता एका प्रतिः (मं. सं. ६४८.) तथा चाणस्मा नीति० भाण्डागारे प्रतिद्वयं (वे. २० प्र. ४३-४४) वर्तते । तथा चाबालगोपालं गाथाप्रमाणमस्याः ५४४ मितं प्रसिद्धं प्रतीयते । अनेकत्र तादृशप्रतीनां बाहुल्योपलब्धेः । तथाहि :- चाणस्मा उमेदवि० संग्रहे (वे. ६) प्रति
उपक्रमः ।
॥ ३० ॥