________________
॥ २९ ॥
सित्वेनाध्ययनप्रबन्ध विधित्सुरवधिना स्वपुत्रस्य प्राप्तस्वकीयराज्यस्य भाविनीं कलिच्छलनामालोकयन् प्रतिबोधविधानाय यथार्थमेतदुपदेशमालप्रकरणमुत्पादयाञ्चकार, पाठयाञ्चकार च पुत्रप्रतिबोधसंविधायै तन्मातुलकमवोचच्च यथासमये समेत्य कलिच्छलितः स्वस्वस्त्रीयस्त्वया प्रतिबोधनीय इति' इत्येतत्सवं 'वृद्धानामुपदेशः ' इति कृत्वोल्लिखितमस्ति । 'अभिधानराजेन्द्रकोशे भा. ४ पृ. २७१९ 'धम्मदासगणि' - शब्दे एवम्भूतोल्लेखः दृश्यते तथाहि : - xxx अनेन भगवता 'उपदेशमाला 'नामग्रन्थोरचितः । अयमाचार्यो वीरप्रभोरपि पूर्वं बभूवेति प्रसिद्धिः . इ । तथा चाहुः प्रतिहतसकलव्यामोहत मिश्राः धर्मदासगणिमिश्राः ध. २०, तथाऽत्राह भगवान् धर्मदासगणिः दर्श० ४ तत्व । एतेनास्या उपदेशमालाया कर्त्तुः श्रीधर्म्मदासगणीन्द्रस्यातिप्राचीनत्वं प्रभुमहावीर - समकालीनत्वसम्भावनाया पोषणश्च ध्वन्यते । ५ नित्यवि० (चाणस्मा) सत्ककोषे वे ४२. प्र. ११५ तपागच्छाधिराज - श्रीसोमसुन्दरसूरिशिष्य श्रीमुनिसुन्दरसूरिक्रमाम्भोरुहभृङ्गपं. हर्ष भूषणगणि १४८६ वर्षे रचिते अञ्चलमत सदुत्तरस्वरूपे श्रीश्राद्धविधिविनिश्चयाख्याप्रकरणग्रन्थे पृ. १५ स्पष्टतरमुटङ्कितमस्ति । यत् : - xxx उपदेशमाला च सर्वेषां प्रमाणं तदुक्तविधीनां भव्यैर्मुक्त्यङ्गत्वेन क्रियमाणत्वात्, 'स्वपुत्र रणसिंहप्रतिबोधनार्थं श्रीमहावीरहस्तदीक्षित - श्रीधर्मदासगणिकृतत्वाच्चेति धर्मदास गणिकथायामुक्तत्वाच' । ६ नित्यवि० चाणस्मा कोशे वे. २० प्र. ४४ अष्टाविंशतिपत्रात्मिकाऽतीवप्राचीना उपदेशमालाया श्रीसिद्धर्षिविवरणप्रतिरस्ति । संभाव्यते चैतदेव विवरणं श्रीसिद्धर्षिकृत हेयोपादेयावृत्त्यपेक्षया लघुवृत्तित्वेन प्रथितं भवेत् । अत्र चादौ २ गाथाविवरणे ' xxxअथवा वीरे जीवति सति गुणस्तुतिरियं प्रकरणकृता काक्वा चक्रेxxxअधुना वीरत्रिलोकीतिलकः प्रत्यक्षत्वात् xxxवीरचक्षुस्त्रिभुवनस्य, आधुनिकजन्तुचक्षुर्भूतागमार्थी xxx' इत्यादिसन्दर्भेण सुतरां स्पष्टतरं उपदेशमालाकर्तुः प्रभुमहावीरसमकालीनत्वं व्यज्यते । ७ नि. भं. चाणस्मा वे. ११७. प्र. ५९४. वि. सं. १६९४ वर्षे का. सु. १० भौमे तपागच्छाधिराजभट्टारकप्रभु श्रीविजयाणंदसूरिविजयराज्ये सकल पंडितभाशृङ्गार पं. श्रीधनहर्षगणि शिष्य पं. रत्नविजयेन लिखितस्य श्रीउपदेशमालावचूर्यात्मक - बालावबोधस्य ३९ पत्रात्मिकप्रतौ प्रारम्भ एव द्वितीयगाथाबालावबोधे ' xxx अनई प्रत्यक्ष उपलक्ष्यमाण भणी श्रीवीर त्रिभुवनलक्ष्मीमंडन जाणिव xxx ' रूपाण्य
उपक्रमः ।
॥ २९ ॥