________________
॥ २८
॥
उपक्रमः।
CRPCpCORERCTRamaeeDezoem
अन्यच्चैतत् ग्रन्थरत्नप्रान्त्यभागे चैवमुल्लिखितमस्ति यत् :-'सोउण पगरणमिणं धम्मेण जाओ उज्जमो जस्स । न य जणियं वेरग, जाणिज्ज अणंतसंसारी ॥ ५३४ ॥' एषा गाथैव ग्रन्थकर्तुरतिशयज्ञानवत्तां ख्यापयति प्रभुमहावीरतीर्थकृत्समकालीनत्वञ्च ध्व-| नयति । को हि विशिष्टातिशयिज्ञानिनं विना वा समर्थसद्गुरुनिश्रिततामन्तरेण सुस्पष्टतत्त्वावबोधक्षमसद्गुरुनिश्रावलसमुपलब्धविशिष्टात्मशक्तिहुङ्कारसममेतत् जल्पितुमपि प्रभुः १ । को वा प्रस्तुतरचनायाः विशिष्टावबोधक्षमतां प्रकृष्टातिशयितज्ञानबलेनाऽविज्ञा यैवं टङ्काररवभूतं वचः प्रोद्घोषयितुमलम् ? । श्रावकाणां हि पाक्षिकाद्यतिचारालोचनासूत्रे च ज्ञानाचारातिचारव्यावर्णनप्रसङ्गे कालाचारालोचनायां 'श्रीउपदेशमालाप्रमुखसिद्धान्ते'-त्याद्यनरैरेतत्प्रकरणस्याकाले पठनादेरतिचारास्पदत्वेन निरूपितमस्ति, व्यज्यत एवा. नेन प्रस्तुतप्रकरणस्य सिद्धान्तप्रायत्वं एतत्कर्तुः सातिशयज्ञानकत्वात् प्रभुमहावीरहस्तदीक्षितत्वाच, नान्यथाऽस्य सिद्धान्तप्रायतौचितीमश्वेत । अस्याश्च कर्तुः प्रभुमहावीरहस्तदीक्षितत्वं समर्थयन्त इमानि च प्रमाणान्तराणि समुपलभ्यन्ते । तथाहिः-१ श्रुतज्ञानसमुपा सनान्तरभक्तिसमुज्ज्वलागमोद्धारणकार्यदक्षागमजीवितसाक्षात्प्रतिमूर्ति-समर्थगीतार्थधुरन्धर-ध्यानस्थस्वर्गतपूज्याचार्य-श्रीआनन्दसागरसूरिपादा हि मलधारिश्रीहेमचन्द्राचार्यनिर्मितोपदेशमालापराह्व-पुष्पमालाया उपोद्घाते निश्शङ्किततरमेवोल्लिखन्ति यत :- xxx त्रिज गजन्तुजातजीवातु-भगवन्महावीरकरकमलदीक्षितः श्रीधर्मदासगणिभिः श्रीउपदेशमालाभिधं प्रकरणं प्रकटितं प्रागिति तदनुकरणेनादधुः सूरयोऽप्युपदेशमालाभिधानमस्यxxx' २ पूज्यागमोद्धारकवयः प्रकाशितोपदेशमाला (मूलमात्र) प्रतेः शीर्षभागे खलु 'श्रीवीरप्रभुशिष्य श्रीमद्धर्मदासगणिकृते'-त्युल्लिखितमस्ति । ३ प्रस्तुतदोघट्टीवृत्तिकर्तारः श्रीरत्नप्रभाचार्या अपि द्वितीयगाथावृत्तौ ‘वीरः पुनः प्रत्यक्षोप लक्षमाणतयाxxxइदानीन्तनजन्तुचक्षुर्भूतागमार्थभाषकत्वात् । इत्थं च तीर्थकरोभयस्य गुणोत्कीर्तनेन प्रकरणकारो भगवति महावीरे विद्यमाने प्रकरणमिदमकारीति काक्वा ज्ञापयामासxxx' इत्युल्लेखेन सुदृढमापादितवन्तः ग्रन्थकर्तुः प्रभुमहावीरसमकालिकत्वं । ४ तथा ५३६ गाथावृतौ प्रकरणसङ्गत्यादिनिर्दिष्टेन सन्दर्भणाप्येतत्समय॑ते तथाहि :-'xxxोविजयसेनमहाराजोxxxपरमेश्वर-श्रीमहावीर (पद्महस्तेन ) हस्तपद्मन प्रव्रज्याxxxस्वीचक्रे । xxxविशालतपोऽनुष्ठाननिष्ठावाप्तधर्मदासगणिनामधेयोऽवधिज्ञानीxxxतीर्थङ्करान्तेवा
PCORDCRecorpora
XI॥ २८॥