________________
॥ २७ ॥
त्रेणैव सकलां द्वादशाङ्गीं प्रणयन्ति इत्येतत्तु समेषामाबालगोपानां प्रतीतिचरमेव । तत्र च भगवतीसूत्र - ज्ञाताधर्मकथो - पासकदशाऽन्तकदशा-नुत्तरौपपातिकदशा - विपाकसूत्रादिषु च द्वादशाङ्गोप्रणयनकालार्वाक्भाविप्रसङ्गानां भूतकालीनप्रयोगसनाथा उल्लेखाः सन्त्येव । अतश्चातिशयज्ञानवद्भिः स्वार्वाक्कालीनप्रसङ्गानामागमानुसारिशैल्या भूतकालीयप्रयोगैरपि निर्देशमात्रेण न तेषामुल्लिखितघनार्वाकालभावित्वं सद्गुरुवाससमुपबृंहितसन्मतिवतां धीमतां प्रतिभासेत । तथा चैषोपदेशमालाऽपि श्रीमद्भिर्धर्मदास गणिवरैरनागतं संसारावस्थीयरणसिंहाख्यपुत्रस्य भाविनीं कलिमलसूचिकां दशां परिभाव्य तन्मानसपरिमार्जनाय विवेकसमुदञ्चत्सज्ज्ञानविसरं प्रपिधयिषुभिः निर्मिताऽस्ति । एतत्समर्थन प्रस्तुतदोघट्टीवृत्तौ उपक्रमे एव प्रथमगाथावृत्तौ उपन्यस्तायां षडशीत्यधिक चतुरशतगाथामितायां श्रीरणसिंहकथायां प्रस्तुतग्रन्थोत्पत्तिवीजं व्यावर्णयद्भिः श्रीरत्नप्रभाचार्यैः कथितमस्ति यत् : - " कलिछलण मोहिणा, विजयसेणमुणिणा विभावितेनायं । उवलद्धधम्मदासाभिहाण सारेण सगुणेहिं ॥ तुह पडिबोहणिमित्तं अणागयं चेव तेण संघडिया | सुगई जिजासुणा सदुवएसमाला महासत्त ! ॥ उप० (गा १. दोघट्टीगतरणसिंहकथा ) ४८५ - ४८६ अनु० उमेदवि० कोशे वे. ६. प्र. ९ समर्थक्रियोद्धारक पू पं. श्रीसत्यविजयगुरूत्तंस शिष्यरत्न श्रोवृद्धिविजयमुनिवरैः विहितस्य श्रीउपदेशमाला 'बालावबोधस्य प्रान्त्यभागे एवमुल्लेखोऽप्युपलभ्यते, यत्ः - - ' xxxजे माहिं ताहर कलिनई देखवरुं छल्यानउं स्वरूप अवधिज्ञान आगथी जाणिनि श्रीधर्मदासगणिदं तुझनई प्रतिबोधवानई अर्थ ए श्रोउपदेशमाला कीधी छइxxxश्रीधर्मदासगण षिमाश्रमणई अतीतअनागतभाव अवधिज्ञानई जाणी ए श्री उपदेशमालानी रचना कीधीxxx ' । एतेनानागतकालीनपदार्थावबोधक्षमावधिज्ञानसम्पन्नपूज्य श्रीधर्मदासगणीतिप्रसिद्ध नामश्री विजय सेनगणिवरैर्विरचिताया अस्या उपदेशमालायाः केषाञ्चनार्वाक्तनीयानामुल्लेखमात्रेण प्रभुमहावीरस्वामिहस्तदीक्षितशिष्यावतंसकर्तृत्वं न सङ्गच्छते इत्याधुनिकविदुषां तर्कः खलु न घटाकोटीमाटीकते इति निश्चप्रच प्रतीयते ।
१ एतत्प्रतिप्रान्त्यभागे चैवं पुष्पिकाः सूर्यपूरबंदरे वाचक श्री यशोवि प्रसादात् १७९५ वर्षे ज्येष्ठ सुदि १ भौमे मनरूपसागरेण लिखिता'
उपक्रमः ।
॥ २७ ॥