________________
२६॥
उपक्रमः ।
zeeraceaeeeeeeeeeeee
प्रकरणकारेण काक्वा चक्रे, ऋषभो जगचूडामणिभूतोऽधुना मुक्तिपदस्थिततया चतुर्दशरज्ज्वात्मकलोकस्योपरिवर्तीत्यर्थः, वीरः पुनः प्रत्यक्षोपलक्ष्यमाणतया त्रिलोकश्रीतिलको भुवनलक्ष्मीमण्डनमिति भावः । तथाऽनयोर्मध्ये एक ऋषभो लोकादित्यो युगादौ प्रभात इव विवेकप्रतिबोधनद्वारेण पदार्थोद्योतकत्वेन निखिलव्यवहारकारणत्वात् । एकः पुनर्वीरश्चक्षुः त्रिभुवनस्य । इदानीन्तनजन्तुचक्षुर्भूतागमार्थभाषकत्वादितिxxx" अन्यच्च “अणुगम्मए भगवइ०” (गा. १३) दिणदिक्खियस्स" (गा. १४) गाथाद्वयपरमार्थविचारणाप्येतमर्थ ध्वनयति यत् प्रस्तुतग्रन्थकर्तारश्चन्दनबालामहत्तरासाध्व्याः नकराजसुतासाध्वीपरिवृतत्वं दिनदीक्षितद्रमकस्यापि विनयव्यञ्जनं प्रत्यक्षं दृष्ट्वैवोदृङ्कितवन्तश्चात्र तत्प्रसङ्गमिति । एवमग्रेऽपि "पणमंति य पुवयरं०" (गा. ५७) "जह चक्कट्टिसाहु.” (गा. ५८) गाथयो| मर्मार्थविचारणा चक्रवर्तिनामर्थात् तत्सदृशानाञ्च राजमूर्धन्यानां दीक्षाप्रसङ्गादेीर्थकृत्महावीरवर्द्धमानस्वामिजीवितकाल एव संभ| वादेतद्ग्रन्थनिर्माणं प्रभुमहावीरसत्तासमये जातं भवेदित्यनुमा दृढीकरोति । तथाचैतद्ग्रन्थकर्तुः प्रभुमहावीरसमकालिकत्वं षट्पञ्चाशदधिकत्रिशत (३५६) तमगाथागतेन 'बंधइ कडि पट्टयमकजे' इतिशब्दोल्लेखेन स्पष्टतरं प्रतीयते, अर्वागाचार्यरक्षितसूरिभ्यो हि श्रमणानां चोलपट्टपरिधानं सार्वदिकं जातं । तदूर्ध्वन्तु निष्कारणतत्परिभोगस्याऽननुज्ञातत्वमेकाशनादिप्रत्याख्यानेषु च 'चोलपट्टागारेणं' पदसूचितनिष्कारणचोलपट्टापरिधानश्च प्रतीतमेव । निष्कारणञ्च चोलपट्टधारणरूपपार्श्वस्थलिङ्गवर्णनमेव हि ग्रन्थकर्तुः प्रभुमहावीरसमकालिकत्वं ख्यापयति। ___ तथा चास्मिन् प्रकरणे वीरनिर्वाणाब्द ५२० पर्यन्तीयघटनोल्लेखेन ग्रन्थकर्तुंर्घटनाकालार्वाक्भावित्वकल्पनापेक्षया तु तेषामवधिज्ञानातिशयवत्त्वमुपजीव्यावधिज्ञानस्य चातीतानगतकालीनपदार्थावबोधशक्तिश्चाभिमत्य तबलेनैवागामिप्रसङ्गोल्लेखादेर्मुसङ्गतत्वकल्पना बुद्धिगम्या भवेत् । भूतकालप्रयोगश्च शब्दशास्त्रविलक्षणशैलिवशान्न प्रन्थकस्तित्तद्धटनाऽर्वाकालीनत्वसिद्धौ समर्थः, आगमेषु हि स्थाने स्थाने एतादृशप्रयोगबाहुल्यात् , गणभृतो हि दीक्षाप्तेरनन्तरं निषद्यात्रयेण त्रिपदी प्रभुमुखात् समधिगम्यान्तर्मुहूर्त्तमा
DeeperpeneCCCCCCrel