________________
उपक्रमः ।
cocoeDeependen20
अत एव धुरन्धरैर्विद्वद्भिः स्वमतिप्राग्भारफलेग्रहितायै सोत्कण्ठैरस्या विविधविवरणादिषु प्रयतितम् । चतुर्विधसङ्घस्याप्याराधनाप्राणभूताश्चमां नितरामतिशयितस्वाध्यायादिना प्रख्यापितवन्तश्चतुरतमाः सुदीर्घदर्शिनः गीतार्थवर्याः । __ परं साम्प्रतीनाः कतिपये विद्वद्वर्याः ऐतिह्यसंशोधनदिशि सर्वप्रमाणोपजीवकाप्तत्वमूलकागमप्रामाण्य शिथिलयन्तः दृष्टश्रुतग्राहिबार्हस्पत्यानुकारिणः तथाकथितविद्वांस इवानुमानप्रामाण्यं बाहुल्येनोपजीवयन्तः सन्तो विप्रतिपद्यन्ते यत् :-प्रस्तुतोपदेशमालाकारः श्रीधर्मदासगणिवराः श्रीमहावीरप्रभुहस्तदीक्षिताः न सम्भवन्ति, श्रोवीरप्रभुनिर्वाणतः पञ्चशतवर्षभाविनीनामपि घटनानामत्रोल्लेख दशनात् , एते ह्येवं प्रतिपादयन्ति यत् :-श्रोउपदेशमालायां श्रीवीरनिर्वाणतोऽर्वाग्भाविनां श्रोआर्यमहागिरि (१५२) श्रोआर्यसम्भूतिविजयशिष्य (६६) श्रोस्थूलभद्र (५९) चन्द्रगुप्तगुरुचाणक्य (१५०) पर्वतक (१५०) उपकोशा (६१) उदायिनृपमारक (३१) अवन्तिसुकुमाल (८८) तुरुमिणीयदत्तनृपमातुल-कालिकाचार्य, (१०५) वनस्वामी (४८-९३)त्येतेषामुल्लेखेनैतत्पन्थकतोर उल्लिखितव्यक्तीनामर्वाक्तनकालभाविन इति स्पष्टतरं प्रतीयते, ततश्च शाश्रूयमाणं हि प्रन्थकर्तृणां प्रभुमहावीरहस्तदीक्षितत्त्वं न सञ्जाघटीति । फलतः आधुनिकैः कैश्चित् विद्वद्भिः एतस्या रचनासमयो वीरनिर्वाणाब्द ५२० तोऽवोक्तनीयघटनानुल्लेखात् वीर नि सं. ५२० मितप्रायोऽभिमन्यते । परं वस्तुतत्त्वगवेषिकया समीक्षात्मिकया दृष्ट्या विचार्यमाणे चेदं सर्व धर्मक्लिन्नहिमवद्विशीर्यते, यतः" जगचूडामणिभूओ० " संद्वितीयगाथायां युगादिप्रभोः सिद्धिस्थानस्थितत्वेन चूडामणिभूततां युगादौ च प्रकाशकत्वेनादित्यस्वरूपतां व्यावण्य श्रीवीरप्रभोः महनीयताव्यञ्जकाभ्यां त्रिलोकश्रीतिलकत्व-त्रिभुवनचक्षुष्ट्वविशेषणाभ्यां ग्रन्थरचनासमये जीवितत्वं स्पष्ट | मेव ध्वन्यते, वर्तमानकाले शोभावृद्धौ व्याप्रियमाणत्व एव तिलकोपमायाः सार्थकत्वात् । भगवतः तत्तत्वपदार्थसार्थविवेचनकार्ये साक्षात् प्रयुज्यमानत्वे सत्येव त्रिजगतश्चक्षुर्भूततायाश्च निाजं सङ्गच्छमानत्वात् । स्फुटतरवैष अर्थः व्याख्यातृचूडामणिभिः पूज्यवर्यैः श्रीसिद्धर्षिगणिवरैयोपादेयाख्यवृत्तौ प्रारम्भ एव विवृतोऽस्ति । तथाहिः-" xxx वीरे भगवति जीवति सति गुणस्तुतिरियं |
Deepereocceroen
॥ २५ ॥