________________
उपदेशमालाविशेषवृत्तौ
comcareer
॥२२१॥
दोससयमूलजालं, पुवरिसिविवज्जियं जई वंतं । अत्थ वहसि अणत्थं, कीस अणथं तवं चरसि ॥५१॥
परिग्रहापायवहबंधणमारणसेहणाओ काओ परिग्गहे नत्थि । तं जइ परिग्गह चिय, जइधम्मो तो नणु पवंचो ॥५२॥
हेतवः। किं आसि नंदिसेणस्स कुलं जं हरिकुलस विउलस्स । आसी पियामहो सुच्चरिएण वसुदेवनामु त्ति ॥ ५३॥ विज्जाहरीहि सहरिसं, नरिंददुहियाहि अहमहंतीहि । जं पत्थिज्जइ तइया, वसुदेवो तं तवस्स फलं ॥५४॥
व्याख्या-" अंतेउर" गाहा यस्मादन्तःपुरादिभिः निमन्त्र्यमाणा अपि वृषभास्तानि नेच्छन्ति, तस्मादलोभतेषां भवति । श्रीगृहं-भाण्डागारं, कामाः-शब्दादिविषयाः। बहुविधत्वमन्तःपुरादीनामशेषाणां विशेषणम् ।। ४९ ॥ किमिति ते तानि नेच्छन्तीति परिगृह्यमाणार्थस्यापायकारित्वं कारणमाह-“छेओ" गाहा । अन्तःपुराद्यर्थपरिग्रहाच्छेदादीनि सर्वाणि भवन्तीति सम्बन्धः । छेदः-खड्गादिभिः। भेदः-कुम्तादिभिः। व्यसनं-राजग्रहादि। आयासः-शरीरकष्टम् । क्लेश:-क्रोधादिबाधा । भयं-चोरादिभ्यः । विवादः-कलहः । शेषं सुगमम् ॥ ५० ॥ किंच
“ द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः ।
दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निधिः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥"
व्रतविरोधी चायमर्थ इत्याह-" दोससय " गाहा । यदि प्रव्रज्याङ्गीकरणेन वान्तं-त्यक्तं दोषशतानां तरूणामिव मूलजालमर्थ | वहसि तदा हे दुर्मते यते ! किमित्यनर्थ निष्फलं तपश्चरसीति तात्पर्यम् ॥५१॥ किंच-" वह " गाहा । पूर्वाद्ध स्पष्टमुत्तरार्द्धस्य त्वयमर्थः तदेवमपि यदि परिग्रहः क्रियते ततो यतिधर्मों ननु-निश्चितं प्रपञ्च एव-विडम्बनैव स्वकार्याऽप्रसाधकत्वात् , 'चिय'!
IS॥२२१ ॥ शब्दस्यैवकारार्थस्यान्ते योजनात् ॥५२॥ बाह्यग्रन्थत्यागं प्रतिपाद्याऽधुना कुलाभिमानरूपान्तरप्रन्थत्यागार्थ गाथाद्वयमाह-"किं आसि"
ORRECORRECTRICIPea