________________
साधुसमागमलामे प्रभाकर- . कथा।
| श्रियः । प्रभाकरप्रभावेण, समतां पद्मवद्गतः ॥ ११ ॥ महीमहेन्द्रानुमतौ, परिवारपुरस्कृतौ । प्रसादमण्डलमलंचक्राते तावुभावपि उपदेशामला- ॥ १२ ॥ अथान्यदा मदास्वादविह्वलः संस्पृशन् प्रियाम् । वध्यः क्रुद्धेन मातंगष्ठक्कुरेण निरोपितः ॥१३॥ वारुणीरसनिर्वाणचैतन्यो विशेषवृत्तौ || नैष दोषवान् । त्वय्याशा निःप्रकाशैव, किं चैवं मादृशामपि ॥ १४ ॥ क्षमस्व मुश्च मन्मित्रमित्युदाहृत्य ठक्कुरम् । निषादं सविषाजम्बचरितIN| दस्तं, मोचयामास स द्विजः ॥ १५॥ इतश्च-ठक्कुरस्य शिखी प्रेयानस्ति तन्मांसमत्ति यः। स श्रियः स्यात्पदं भिक्षुरित्यूचे
कोऽपि चेटिकाम् ।। १६ ।। प्रभाकरः प्रत्यपादि, तन्मांसस्पृहया तया । दुनिग्रहस्त्रीग्रहतस्तेनापि प्रत्यपद्यत ॥ १७॥ दत्तमन्यामिषं तस्यै, रक्षित्वा तं शिखाचलम् । नीतान्येतान्यनेनेत्थमुपकारसुखासिकाम् ॥ १८ ॥ भोजनावसरे सूनुनिर्विशेष शिखण्डिनम् । अपश्यन् ठक्कुरस्तत्र, सर्वत्रापि व्यशोधयत् ॥ १९ ॥ अदृष्टे चात्र दीनारसहस्रार्पणपूर्वकम् । एवमुद्घोषयामास, पटहं ठक्कुरः पुरे ॥ ७२०॥ दीनाराभयलोभेन, भो कलापी स कथ्यताम् । पश्चाज्जाते पुनर्देहदण्डश्चण्डो भविष्यति ॥२१॥ श्रुत्वेति चिन्तितं चेट्या, भावी भर्ता ममाऽपरः । उपस्थितं धनं तावत्, करोमि स्वकरे द्रुतम् ॥ २२ ॥ नीचैर्वृत्तिमतां नित्यं, कुरङ्गविषयैषिणाम् । बुद्धि हतकलुब्धानां, धिक्पापप्रतिवेशिनीम् ।। २३ ।। स्पृष्ट्वाऽथ पटई चेटी, गत्वा दुष्टाशयान्तिकम् । प्रकटीकृतभिक्षुक्तिः, पाप्मिनीति व्यजिज्ञपत् ॥ २४ ॥ मया निवारितेनापि, वारं वारं द्विजन्मना । धनायता परं तेन, स्वामिन् बहीं निबर्हितः ॥२५॥ अकृतज्ञेन तेनैवं, तद्राि ज्वलितक्रुधा । वध्यस्तन्मित्रमातंगस्योपनिन्ये प्रभाकरः ।। २६ ॥ अगृह्यमाणाः सत्कृत्यैषन्तः संस्तुतेष्वपि । खादन्तो निजवन्याश्च, ते खला मण्डलाधिकाः ॥ २७ ॥ तेनोक्तं भद्र ! मां मुञ्च, दूर देशान्तरं श्रये । पुराकृतोपकारस्य, त्वमानृण्यमुपेहि मे ॥ २८ ॥ अथाभ्यधत्त चण्डालः, पापभृन्मण्डलाग्रणीः । युक्तमुक्तं त्वया बन्धो ! ऽपराद्धं परमं पर(द)म् ॥२९॥ द्विधा दुष्टाशयः स्वामी, मुश्चामि त्वां कथं यतः। रजकस्येव मे मृत्युः, खरमृत्यौ भवेद् ध्रुवम् ॥ ७३० ।। ततः स चिन्तयामास, सानुतापः प्रभाकरः। दृष्टं माहत्म्यमेतेषां, हा नीचप्रकृति जनम् ।। ३१ ॥ " नीचः कृतोपकारोऽपि, विमानयति निश्चितम् । जातवेदा
१ व्यवाययत् ।।
DDCORPEKCIDCROACare
Decorderoecooperpa
। ॥ १७९॥